Sunday, July 12, 2020

Yajur veda upakarmam 22020 in SAnskrit and Malayalam

yajurveda upakarmam  03-08-2020 (Monday) 
and
 gayatri japam  04-08-2020 (Tuesday)
 Mantrams

compiled by K V Ananthanarayanan Sekharipuram Palakkad

yajurveda upakarmam  03-08-2020 (Monday) 
1 यजुरुपाकर्मं  कामोकार्षीत् जपम्
पवित्रम् धृत्वा दर्भेष्वासीनः दर्भान् धारयमाणः
शुक्ळाम्बरधरम् विष्णुम् शशिवर्णम् चतुर्भुजम् प्रसन्नवदनम् ध्यायेत् सर्वविघ्नोपशान्तये ॥ ॐ भूः (प्राणायामम्)
ममोपात्त समस्त दुरितक्षयद्वारा श्री ---- प्रीत्यर्थम् शुभे शोभने मुहूर्ते आद्यब्रह्मणः द्वितीय परार्धे श्वेतवराहकल्पे वैवस्वत मन्वन्तरे अष्टाविम्शति तमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरत खण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिके प्रभवादि षष्ठि संवत्सराणाम् मध्ये शार्वरी नाम संवत्सरे दक्षिणायने ग्रीष्म  ऋतौ कटक  मासे शुक्ळपक्षे अद्य पौर्णमास्याम् शुभतिथौ इन्दु  वासर युक्तायाम् श्रवण  नक्षत्र युक्तायाम् शुभयोग शुभकरण एवम् गुण विशेषण विशिष्टायाम् अस्याम् पौर्णमास्याम् शुभतिथौ तैष्याम् पौर्णमास्याम् अध्याय उत्सर्जन अकरण प्रायश्चित्तार्थम् अष्टोत्तर सहस्र सङ्ख्यया कामोकार्षीत् मन्युरकार्षीत् महमन्त्रजपम् करिष्ये ॥
दर्भान् उत्तरतो निरस्य॥
प्रणवस्य--इति जपित्वा दशवारम् प्राणान् आयम्य अष्टोत्तरसहरवारम् कामोकार्षीत् मन्युरकार्षित् नमो नमः इति जपेत् - जपावसाने काममन्युरुपस्थानम् करिष्ये इति उपस्थानम् कुर्यात्॥
उत्तमे शिखरे देवि भूम्याम् पर्वत मूर्धनि ब्राह्मणेभ्योह्यनुज्ञानम् गच्छ देवि यथा सुखम् अभिवादनम् कृत्वा नमस्कुर्यात् पवित्रम् विसृज्य आचमेत्॥
2 ॥ब्रह्मयज्ञः॥
आचम्य प्राङ्मुख: उदङ्मुखो वा पवित्रपाणिः आसीनः सङ्कल्पम् कुर्यात्। शुक्ळाम्----शान्तये। ममोपात्त समस्त-------प्रीत्यर्थम् ब्रह्मयज्ञम् करिष्ये ब्रह्मयज्ञेन यक्ष्ये। विद्युदसि विद्य मे पापानमृतात् सत्यमुपैमि इति मन्त्रेण हस्तौ आ मणिबन्धम् प्रक्षाल्य ॐ भूः तत् सवितुर् वरेण्यम् ॐ भुवः भर्गो देवस्य धीमहि ओग्म् सुवः धियो यो नः प्रचोदयात् ॐ भूः तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि ॐ भुवः धियो यो नः प्रचोदयात् ओग्म् सुवः तत् सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ अग्निमीळे पुरोहितम् यज्ञस्य देवम् ऋत्विजम् होतारम् रत्नधातमम् (ऋग्वेदः )ॐ इषे त्वा ऊर्जे त्वा वायवस्थ उपायवस्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे (यजुर्वेदः) ॐ अग्न आयाहि वीतये गृणानो हव्य दातये नि होता सत्सि बर्हिषि (सामवेदः) ॐ शन्नो देवीरभिष्टय आपो भवन्तु पीतये शम्योरभिस्रवन्तु नः( अथर्वण वेदः ) इति जप्त्वा तदनन्तरं सत्यम् तपः श्रद्धायाम् जुहोमि इति मन्त्रेण आत्मानम् परिषिच्य परिधानीयम् ऋचम् त्रिः जपेत्
ॐ नमो ब्रह्मणे नमोऽस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि।
वृष्टिरसि वृश्च मे पाप्मानमृतात् सत्यमुपागाम् इति हस्तौ पूर्व्ववत् आ मणिबन्धात् प्रक्षाळयेत् ( देव ऋषि पितृ तर्पणम्)
शुक्ळाम्बरधरम्----शान्तये। ममोपात्त... प्रीत्यर्थम् देव ऋषि पितृ तर्पणम् करिष्ये -- जीवत् पितृकाः देव ऋषि तर्पणम् करिष्ये इति सङ्कल्पम् कुर्युः।
१ देव तर्पणम् ..देवतीर्थेन अङ्गुल्यग्रेण सकृत् सकृत् देवान् तर्पयेत्
१ ब्रह्मादयो यो देवाः तान् देवान् तर्पयामि
 २ सर्वान् देवान् तर्पयामि
३ सर्व्वदेवगणान् तर्पयामि
४ सर्व्वदेवपत्नीः तर्पयामि
 ५ सर्व्वदेवगणपत्नीः तर्पयामि
२ ऋषितर्पणम्.. नीवीति ऋषितीर्थेन हस्तयो मध्येन द्विः द्विः ऋषीन् तर्पयेत्
 १ कृष्णद्वैपायनादयः ये ये ऋषयः तान् ऋषीन् तर्पयामि
२ सर्व्वान् ऋषीन् तर्पयामि
 ३ सर्व्वऋषिगणान् तर्पयामि
 ४ सर्व्वर्षिपत्नीः तर्पयामि
 ५ सव्वर्षिगणपत्नीः  तर्पयामि
 ६ प्रजापतिम् काण्डऋषिम् तर्पयामि
 ७ सोमम् काण्डऋषिम् तर्पयामि
 ८ अग्निम् काण्डऋषिम् तर्पयामि
९ विश्वान् देवान् काण्डर्षीन् तर्पयामि
 १० साम्हितीर्देवता उपनिषदः तर्पयामि
 ११ याज्ञिकीर्देवता उपनिषदः तर्पयामि
 १२ वारुणीर्देवता उपनिषदः तर्पयामि १३ हव्यवाहम् तर्पयामि
१४ विश्वान् देवान् काण्डर्षीन् तर्पयामि
१५ ब्रह्माणम् स्वयम्भुवम् तर्पयामि
१६ विश्वान् देवान् काण्डर्षीन् तर्पयामि
 १७ अरुणान् काण्डर्षीन् तर्पयामि
१८ सदसस्पतिम् तर्पयामि
 १९ ऋग्वेदम् तर्पयामि
 २० यजुर्वेदम् तर्पयामि
२१ सामवेदम् तर्पयामि
२२ अथर्व्वणवेदम् तर्पयामि
२३ इतिहासपुराणम् तर्पयामि
 २४ कल्पम् तर्पयामि
३ पितृतर्पणम्.. प्राचीनावीतिः पितृतीर्थेन अङ्गुष्ठस्य तर्ज्जन्याश्च मद्ध्यभागेन पितॄन् त्रिः त्रिः तर्पयेत्
१ सोमः पितृमान् यमो अङ्गिरस्वान् अग्निः कव्यवाहनः इत्यादयः ये पितरः तान् पितॄन् तर्पयामि
२ सर्व्वान् पितॄन्स्तर्पयामि
३ सर्व्वपितृगणान् तर्पयामि
 ४ सर्व्वपितृपत्नीस्तर्पयामि
 ५ सर्व्वपितृगणपत्नीस्तर्पयामि
 ऊर्ज्जम् वहन्तीः अमृतम् घृतम् पयः कीलालम् परिस्रुतम् स्वधास्थ तर्पयत मे पितॄन् तृप्यत तृप्यत तृप्यत उपवीति आचमनम्
3 उपाकर्म महासङ्कल्पम्
शुक्ळाम्बरधरम् विष्णुम् शशिवर्णम् चतुर्भुजम् प्रसन्नवदनम् ध्यायेत् सर्वविघ्नोपशान्तये।
ॐ भूः॥॥ ममोपात्त समस्त दुरितक्षयद्वारा श्री परमेश्वर प्रीत्यर्थम् तदेव लग्नम् सुदिनम् तदेव ताराबलम् चन्द्रबलम् तदेव विद्याबलम् दैवबलम् तदेव लक्ष्मीपतेः अङ्घ्रियुगम् स्मरामि। अपवित्रः पवित्रो वा सर्वावस्थाम् गतोऽपि वा यः स्मरेत् पुण्डरीकाक्षम् स बाह्य आभ्यन्तरः शुचिः। मानसम् वाचिकम् पापम् कर्मणा समुपार्जितम् श्रीरामस्मरणेनैव व्यपोहति न संशयः। श्री राम राम राम तिथिर् विष्णुः तथा वारः नक्षत्रम् विष्णुरेव च। योगश्च करणम् चैव सर्वम् विष्णुमयम् जगत्। श्री गोविन्द गोविन्द गोविन्द। आद्यश्री भगवतः आदिविष्णोः आदिनारायणस्य अचिन्त्यया अपरिमितया शक्त्या भ्रियमाणस्य महाजलौखस्य मध्ये परिभ्रमताम् अनेककोटि ब्रह्माण्डानाम् मध्ये एकतमे अव्यक्त महदहङ्कार पृथिव्यप्तेज वाय्वाकाशाद्यैः आवरणैः आवृते अस्मिन् महति ब्रह्माण्डकरण्डकमध्ये आधारशक्ति आदिकूर्म्माद्यनन्तादि अष्टदिग्गजोपरि प्रतिष्ठितस्य अतल वितल सुतल रसातल तलातल महातल पाताळाख्य लोकसप्तकस्य उपरितले पुण्यकृताम् निवासभूते भुवस्सुवः महर्ज्जन तपस्सत्याख्य लोकषट्कस्य अधोभागे महानाळायमानफणिराजशेषस्य सहस्रफणामणि मण्डल मण्डिते दिग्दन्ति शुण्डादण्ड उत्तम्भिते पञ्चाशत्कोटियोजन विस्तीर्ण्णे लोकालोक अचलेन वलयिते लवणेक्षु सुरासर्पि दधि क्षीर शुद्धोदकार्ण्णवैः परिवृते जम्बूप्लक्षशाकशाल्मली कुशक्रौञ्च पुष्कराख्य सप्तद्वीपानाम् मध्ये जम्बूद्वीपे महासरोरुहे रूपकेसराकार तिकूट चित्रकूटादि अचल परिवृत कर्णिकाकार सुमेरुम् अभितः तदाधारभूते भूमण्डले लक्षयोजनविस्तीर्णे महामेरु निषध हेमकूट हिमाचलानाम् इळावृत हरिकिम्पुरुष वर्षाणाम् च दक्षिणे नवसहस्रयोजनविस्तीर्णे इन्द्र कशेरु ताम्र गभस्तिमत् नाकसौम्य गन्धर्व चारण भारताख्य नववर्षात्मके भारतवर्षे स्वर्णप्रस्थ चन्द्रयुक्त अजावर्त्ति रमणक मङ्गल महारण पाञ्चजन सिम्हळ लङ्काख्य नवखण्डात्मके भरतखण्डे स्वामिशैल अवन्ति कुरुक्षेत्र दण्डकारण्य मलयाचल समभूमध्यरेखायाः पूर्व्वदिग्भागे श्रीशैलस्य आग्नेयदिग्भागे श्रीरामसेतुगङ्गायोः मध्यप्रदेशे परशुरामक्षेत्रे परार्धद्वयजिविनः ब्रह्मणः प्रथमे परार्धे पञ्चाशत् अब्दात्मिके अतीते द्वितीयपरार्धे पञ्चाशत् अब्दादौ प्रथमे वर्षे प्रथमे मासे प्रथमे पक्षे प्रथमे दिवसे अहनि द्वितीये यामे तृतीये मुहूर्ते स्वायम्भुव स्वारोचिष उत्तम तामस रैवत चाक्षुसाख्येषु षट्सु मनुषु व्यतीतेषु सप्तमे वैवस्वतमन्वन्तरे अष्टाविम्शतितमे कृत त्रेता द्वापर कलियुगात्मके चतुर्युगे तत्र कलियुगे प्रथमे पादे सौर चान्द्र सावन नाक्षत्रमानैः अनुमिते शालीवाहन शकाब्दे प्रभवादीनाम् षष्टिसम्वत्सराणाम् मद्ध्ये शार्वरी  नाम सम्वत्सरे दक्षिणायने ग्रीष्म  ऋतौ कटकमासे  शुक्ळपक्षे अद्य पौर्णमास्याम् शुभतिथौ इन्दुवासरयुक्तायाम् श्रवण नक्षत्र युक्तायाम् शुभयोग शुभकरण एवम् गुण विशेषण विशिष्टायाम् पौर्णमास्याम् शुभतिथौ ममोपात्त समस्त दुरितक्षयद्वारा श्री परमेश्वर प्रीत्यर्थम्
अनादि अविद्या वासनया प्रवर्त्तमाने अस्मिन् महति सम्सारचक्रे विचित्राभिः कर्म्मगतिभिः विचित्रासु पशु पक्षि मृगादि योनिषु पुनः पुनः अनेकदा जनित्वा केनापि पुण्यकर्म्मविशेषेण इदानीम्तन मानुष्ये द्विजन्मविशेषम् प्राप्तवतः मम जन्माभ्यासात् जन्मप्रभृति एतद् क्षण पर्यन्तम् बाल्ये वयसि कौमारे यौवने वार्द्धक्ये च जाग्रत् स्वप्न सुषुप्ति अवस्थासु मनो वाक्काय कर्म्मेन्द्रिय व्यापारैः ज्ञानेन्द्रिय व्यापारैः काम क्रोध लोभ मोह मद मात्सर्यादिभीः सम्भावितानाम् सम्सर्ग्गनिमित्तानाम् भूयो भूयोऽभ्यस्थानाम् समपातकानाम् अतिपातकानाम् उपपातकानाम् सङ्करीकरणानाम् मलिनीकरणानाम् अपात्रीकरणानाम् जातिभ्रम्शकराणाम् प्रकीर्ण्णकानाम् ज्ञानतः सकृत्कृतानाम् अज्ञानतः असकृत्कृतानाम् ज्ञानतः अज्ञानतश्च अभ्यस्तानाम् निरन्तर अभ्यस्तानाम् चिरकाल अभ्यस्तानाम् एवम् नवानाम् नवविधानाम् बहूनाम् बहुविधानाम् सर्वेषाम् पापानाम् सद्यः अपनोदन द्वारा समस्त पापक्षयार्थम् देवब्राह्मण सन्निधौ अश्वत्थ नारायण सन्निधौ त्रयस्त्रिम्शत्कोटि समस्त देवता सन्निधौ श्री विशालाक्षीसमेत श्री विश्वेश्वरस्वामि सन्निधौ निळाभूमीलक्ष्मी समेत श्री लक्ष्मीनारयणस्वामि सन्निधौ सीतलक्ष्मणभरतशत्रुघ्न हनूमत् समेत श्री रामचन्द्रस्वामिसन्निधौ श्री वल्लीदेवसेना समेत श्री सुब्रह्मण्यस्वामि सन्निधौ श्री हरिहरपुत्रस्वामि सन्निधौ श्रावण्याम् पौर्णमास्याम् अध्ययोपाकर्म करिष्ये।(द्विः।)
तदङ्गम् श्रावणीपौर्ण्णमासी पुण्यकाले महानद्याम् शिवगङ्गा स्नानमहम् करिष्ये॥
अतिक्रूर महाकाय कल्पान्त दहनोपम भैरवाय नमस्तुभ्यम् अनुज्ञाम् दातुम् अर्हसि।
गोविन्दनाम सङ्कीर्तनम् गोविन्द गोविन्द।
4. यज्ञोपवीत धारण मन्त्रः
शुक्ळाम्-- शान्तये ममोपात्त समस्त------ प्रीत्यर्थम् श्रौत स्मार्त्त विहित सदाचार नित्यकर्म अनुष्ठान योग्यता सिद्ध्यर्थम् ब्रह्मतेजो अभिवृद्ध्यर्थम् यज्ञोपवीत धारणम् करिष्ये॥
यज्ञोपवीत धारण महामन्त्रस्य परब्रह्म ऋषि त्रिष्टुभ् च्छन्दः परमात्मा देवता यज्ञोपवीतधारणे विनियोगः (नूतन यज्ञोपवीत धारण मन्त्रः)
यज्ञोपवीतम् परमम् पवित्रम् प्रजापतेः यत् सहजम् पुरस्तात् आयुष्यम् अग्रिमुम् प्रतिमुञ्च शुभ्रम् यज्ञोपवीतम् बलम् अस्तु तेजः।
ॐ भूः भुवः सुवः
(जीर्ण यज्ञोपवीत निरसन मन्त्रः )
उपवीतम् भिन्नतन्तुम् जीर्णम् कश्मल दूषितम् विसृजामि नहि ब्रह्म वर्चः दीर्घायुरस्तु मे॥
आचम्य॥
5 काण्डऋषि तर्पणम्
तिलाक्षतान् गृहीत्वा आचम्य शुक्ळाम्बरधरम् ----शान्तये   ॐ भूः---ॐ अद्य पूर्वोक्त एवं गुण विशेषण विशिष्टायाम् अस्याम् पौर्णमास्याम् शुभतिथौ ममोपात्त समस्त दुरितक्षयद्वारा श्री परमेश्वर प्रीत्त्यर्थम् श्रावणिपौर्णमासी पुण्यकाले अद्ध्यायोपकर्माङ्गम् प्राजापत्यादि काण्डऋषि तर्पणम् करिष्ये
 तिलाक्षतान् गृहीत्वा निवीतिनः त्रिः त्रिः
 १ प्रजापतिम् काण्डऋषिम् तर्पयामि
२ सोमम् काण्डऋषिम् तर्पयामि
३ अग्निम् काण्डऋषिम् तर्पयामि
४ विश्वान् देवान् काण्डऋषीन् तर्पयामि
 ५ साम्हितीर् देवताः उपनिषदः तर्पयामि
 ६ यज्ञिकीर् देवताः उपनिषदः तर्पयामि
७ वारुणीर् देवताः उपनिषदः तर्पयामि ८ ब्रह्माणम् स्वयम्भुवम् तर्पयामि
९ सदसस्पतिम् तर्पयामि
उपवीति आचमनम्

Gayatri Japam  04-08-2020   Tuesday
5 गायत्री जप सङ्कल्पः
पवित्रम् धृत्वा दर्भेष्वासीनः दर्भान् धारयमाणः शुक्ळाम्बरधरम् विष्णुम् शशिवर्णम् चतुर्भुजम् प्रसन्नवदनम् ध्यायेत् सर्वविघ्नोपशान्तये   ॐ भूः प्राणान् आयाम   ममोपात्त समस्त दुरितक्षयद्वारा श्री ---- प्रीत्यर्थम् शुभे शोभने मुहूर्ते आद्यब्रह्मणः द्वितीय परार्धे श्वेतवराहकल्पे वैवस्वत मन्वन्तरे अष्टाविम्शति तमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरत खण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिके प्रभवादि षष्टि सम्वत्सराणाम् मध्ये शार्वरी  नाम सम्वत्सरे दक्षिणायने ग्रीष्म  ऋतौ कटक मासे कृष्ण पक्षे अद्य प्रथमायाम् शुभ तिथौ भौम  वासर युक्तायाम् श्रविष्ठा नक्षत्र युक्तायाम् शुभयोग शुभकरण एवम् गुण विशेषण विशिष्टायाम् अस्याम् प्रथमायाम् शुभतिथौ
मिथ्यातीत प्रायश्चित्तार्थम् दोषवत् अपतनीयप्रायश्चित्तार्थम् सम्वत्सर प्रायश्चित्तार्थम्
अष्टोत्तर सहस्र सङ्ख्यया गायत्री महमन्त्रजपम् करिष्ये
दर्भान् उत्तरतो निरस्य
प्रणवस्य ऋषिः।--- देवता॥
 भूरादि-- देवता॥ इति न्यस्य दशवारम् प्राणायामम् कुर्यात्
आयात्वित्यनुवाकस्य-------------- परमात्मा देवता॥ ॥गायत्री जपम् अष्टोत्तरसहस्रवारम्॥
उपस्थानम्॥
गायत्र्युपस्थानम् करिष्ये उत्तमे---सुखम् अभिवादनम्
नमस्कारम्
पवित्रम् विसृज्य आचम्य।















യജുരുപാകര്‍മ്മം  03-08-2020  തിങ്കളാഴ്ച

1 യജുരുപാകര്‍മ്മം   കാമോകാര്‍ഷീത് ജപം
പവിത്രം ധൃത്വാ ദര്‍ഭേഷ്വാസീനഃ ദര്‍ഭാന്‍  ധാരയമാണഃ
ശുക്ളാംബരധരം വിഷ്ണും ശശിവര്‍ണ്ണം ചതുര്‍ഭുജം പ്രസന്നവദനം ധ്യായേത് സര്‍വ്വവിഘ്നോപശാന്തയേ ॥ ഓം ഭൂഃ (പ്രാണായാമം)
മമോപാത്ത സമസ്ത ദുരിതക്ഷയദ്വാരാ ശ്രീ പരമേശ്വരപ്രീത്യര്‍ഥം ശുഭേ ശോഭനേ മുഹൂര്‍ത്തേ ആദ്യബ്രഹ്മണഃ ദ്വിതീയ പരാര്‍ദ്ധെ ശ്വേതവരാഹകല്‍പ്പേ വൈവസ്വത മന്വന്തരേ അഷ്ടാവിംശതി തമേ കലിയുഗേ പ്രഥമേ പാദേ ജംബൂദ്വീപേ ഭാരതവര്‍ഷെ ഭരതഖണ്ഡേ മേരോഃ ദക്ഷിണേ പാര്‍ശ്വേ ശകാബ്ദേ അസ്മിന്‍ വര്‍ത്തമാനേ വ്യാവഹാരികേ പ്രഭവാദി ഷഷ്ഠി സംവത്സരാണാം മധ്യേ ശാര്‍വ്വരീ നാമ സംവത്സരേ ദക്ഷിണായനേ ഗ്രീഷ്മ  ഋതൌ കടക  മാസേ ശുക്ളപക്ഷേ അദ്യ പൌര്‍ണമാസ്യാം ശുഭതിഥൌ ഇന്ദു  വാസര യുക്തായാം ശ്രവണ  നക്ഷത്ര യുക്തായാം ശുഭയോഗ ശുഭകരണ ഏവം ഗുണ വിശേഷണ വിശിഷ്ടായാം അസ്യാം പൌര്‍ണമാസ്യാം ശുഭതിഥൌ തൈഷ്യാം പൌര്‍ണമാസ്യാം അധ്യായ ഉത്സര്‍ജന അകരണ പ്രായശ്ചിത്താര്‍ത്ഥം അഷ്ടോത്തര സഹസ്ര സംഖ്യയാ കാമോകാര്‍ഷീത് മന്യുരകാര്‍ഷീത് മഹമന്ത്രജപം കരിഷ്യേ ॥
ദര്‍ഭാന്‍ ഉത്തരതോ നിരസ്യ॥
പ്രണവസ്യ--ഇതി ജപിത്വാ ദശവാരം പ്രാണാന്‍ ആയമ്യ അഷ്ടോത്തരസഹരവാരം കാമോകാര്‍ഷീത് മന്യുരകാര്‍ഷീത് നമോ നമഃ ഇതി ജപേത് - ജപാവസാനേ കാമമന്യുരുപസ്ഥാനം കരിഷ്യേ ഇതി ഉപസ്ഥാനം കുര്യാത്॥
ഉത്തമേ ശിഖരേ ദേവി ഭൂമ്യാം പര്‍വ്വത മൂര്‍ദ്ധനി ബ്രാഹ്മണേഭ്യോഹ്യനുജ്ഞാനം ഗച്ഛ ദേവി യഥാ സുഖം
അഭിവാദനം കൃത്വാ നമസ്കുര്യാത് പവിത്രം വിസൃജ്യ ആചമേത്॥



2  ബ്രഹ്മയജ്ഞഃ
ആചമ്യ പ്രാങ്മുഖഃ ഉദങ്മുഖോ വാ പവിത്രപാണിഃ ആസീനഃ സങ്കല്പം കുര്യാത്। ശുക്ളാം----ശാന്തയേ। മമോപാത്ത സമസ്ത-------പ്രീത്യര്‍ത്ഥം ബ്രഹ്മയജ്ഞം കരിഷ്യേ ബ്രഹ്മയജ്ഞേന യക്ഷ്യേ. വിദ്യുദസി വിദ്യ മേ പാപാനമൃതാത് സത്യമുപൈമി  ഇതി മന്ത്രേണ ഹസ്തൌ ആമണിബന്ധം പ്രക്ഷാള്യ  ഓം ഭൂഃ തത് സവിതുര്‍ വരേണ്യം ഓം ഭുവഃ ഭര്‍ഗോ ദേവസ്യ ധീമഹി ഓഗ്മ് സുവഃ ധിയോ യോ നഃ പ്രചോദയാത്   ഓം ഭൂഃ തത്സവിതു ര്‍വരേണ്യം ഭര്‍ഗോ ദേവസ്യ ധീമഹി ഓം ഭുവഃ ധിയോ യോ നഃ പ്രചോദയാത് ഓഗ്മ് സുവഃ തത് തത്സവിതുര്‍വരേണ്യം ഭര്‍ഗോ ദേവസ്യ ധീമഹി ധിയോ യോ നഃ പ്രചോദയാത്.
 ഓം അഗ്നിമീളേ പുരോഹിതം യജ്ഞസ്യ ദേവം ഋത്വിജം ഹോതാരം രത്നധാതമം (ഋഗ്വേദഃ )
ഓം ഇഷേ ത്വാ ഊര്‍ജേത്വാ വായവസ്ഥ ഉപായവസ്ഥ ദേവോ വഃ സവിതാ പ്രാര്പയതു ശ്രേഷ്ഠതമായ കര്മണേ (യജുര്‍വേദ: )
ഓം അഗ്ന ആയാഹി വീതയേ ഗൃണാനോ ഹവ്യ ദാതയേ നി ഹോതാ സത്സി ബര്‍ഹിഷി (സാമവേദഃ)
 ഓം ശന്നോ ദേവീരഭിഷ്ടയ ആപോ ഭവന്തു പീതയേ ശംയോരഭിസ്രവന്തു നഃ( അഥര്‍വ്വണ വേദഃ )
 ഇതി ജപ്ത്വാ തദനന്തരം സത്യം തപഃ ശ്രദ്ധായാം ജുഹോമി ഇതി മന്ത്രേണ ആത്മാനം പരിഷിച്യ പരിധാനീയം ഋചം ത്രിഃ ജപേത്
ഓം നമോ ബ്രഹ്മണേ നമോഽസ്ത്വഗ്നയേ നമഃ പൃഥിവ്യൈ നമ ഓഷധീഭ്യഃ നമോ വാചേ നമോ വാചസ്പതയേ നമോ വിഷ്ണവേ ബൃഹതേ കരോമി।
വൃഷ്ടിരസി വൃശ്ച മേ പാപ്മാനമൃതാത് സത്യമുപാഗാം ഇതി ഹസ്തൌ പൂര്വ്വവത് ആ മണിബന്ധാത് പ്രക്ഷാളയേത് ( ദേവ ഋഷി പിതൃ തര്പണം)
ശുക്ളാംബരധരം----ശാന്തയേ. മമോപാത്ത… പ്രീത്യര്‍ത്ഥം ദേവ ഋഷി പിതൃ തര്‍പ്പണം  കരിഷ്യേ -- ജീവത് പിതൃകാഃ ദേവ ഋഷി തര്‍പ്പണം കരിഷ്യേ ഇതി സങ്കല്‍പം കുര്യുഃ.
1 ദേവ തര്‍പ്പണം ॥ദേവതീര്‍ത്ഥേന
അങ്ഗുല്യഗ്രേണ സകൃത് സകൃത് ദേവാന്‍ തര്‍പ്പയേത്
1 ബ്രഹ്മാദയോ യോ ദേവാഃ താന്‍ ദേവാന്‍ തര്‍പ്പയാമി
2 സര്‍വ്വാന്‍ ദേവാന്‍ തര്‍പ്പയാമി
3 സര്‍വ്വദേവഗണാന്‍ തര്‍പ്പയാമി
4 സര്‍വ്വദേവപത്നീഃ തര്‍പ്പയാമി
5 സര്‍വ്വദേവഗണപത്നീഃ തര്‍പ്പയാമി
2 ഋഷി തര്‍പ്പണം
 നീവീതി ഋഷിതീര്‍ത്ഥേന ഹസ്തയോ മധ്യേന ദ്വിഃ ദ്വിഃ ഋഷീന്‍ തര്‍പ്പയേത്
 1കൃഷ്ണദ്വൈപായനാദയഃ യേ യേ ഋഷായഃ താന്‍  ഋഷീന്‍ തര്‍പ്പയാമി
2 സര്‍വ്വാന്‍ ഋഷീന്‍ തര്‍പ്പയാമി
3 സര്‍വ്വ ഋഷിഗണാന്‍ തര്‍പ്പയാമി
4 സര്‍വ്വ ഋഷിപത്നീഃ തര്‍പ്പയാമി
5 സര്‍വ്വ ഋഷിഗണപത്നീഃ  തര്‍പ്പയാമി
 6 പ്രജാപതിം കാണ്ഡഋഷിം തര്‍പ്പയാമി
7 സോമം കാണ്ഡഋഷിം തര്‍പ്പയാമി
8 അഗ്നിം കാണ്ഡഋഷിം തര്‍പ്പയാമി
9 വിശ്വാന്‍ ദേവാന്‍ കാണ്ഡഋഷീന്‍  തര്‍പ്പയാമി
 10 സാംഹിതീര്‍ദേവതാ ഉപനിഷദഃ തര്‍പ്പയാമി
 11 യാജ്ഞികീര്‍ദേവതാ ഉപനിഷദഃ തര്‍പ്പയാമി
12 വാരുണീര്‍ദേവതാ ഉപനിഷദഃ തര്‍പ്പയാമി
13 ഹവ്യവാഹം തര്‍പ്പയാമി

14 വിശ്വാന്‍ ദേവാന്‍ കാണ്ഡഋഷീന്‍  തര്‍പ്പയാമി
15 ബ്രഹ്മാണം സ്വയംഭുവം തര്‍പ്പയാമി
16 വിശ്വാന്‍ ദേവാന്‍ കാണ്ഡര്‍ഷീന്‍ തര്‍പ്പയാമി
 17 അരുണാന്‍  കാണ്ഡര്‍ഷീന്‍ തര്‍പ്പയാമി
18 സദസസ്പതിം തര്‍പ്പയാമി
 19 ഋഗ്വേദം തര്‍പ്പയാമി
 20 യജുര്‍വേദം തര്‍പ്പയാമി
21 സാമവേദം തര്‍പ്പയാമി
22 അഥര്‍വ്വണവേദം തര്‍പ്പയാമി
23 ഇതിഹാസപുരാണം തര്‍പ്പയാമി
 24  കല്‍പ്പം തര്‍പ്പയാമി
3 പിതൃതര്‍പ്പണം  പ്രാചീനാവീതിഃ പിതൃതീര്‍ത്ഥേന അങ്ഗുഷ്ഠസ്യ തര്‍ജ്ജന്യാശ്ച മദ്ധ്യഭാഗേന പിതൄന്‍ ത്രിഃ ത്രിഃ തര്‍പ്പയേത്
1 സോമഃ പിതൃമാന്‍ യമോ അങ്ഗിരസ്വാന്‍ അഗ്നിഃ കവ്യവാഹനഃ ഇത്യാദയഃ യേ പിതരഃ താന്‍ പിതൄന്‍ തര്‍പ്പയാമി
2 സര്‍വ്വാന്‍ പിതൄന്‍സ്തര്‍പ്പയാമി
3 സര്‍വ്വപിതൃഗണാന്‍ തര്‍പ്പയാമി
 4 സര്‍വ്വപിതൃപത്നീസ്തര്‍പ്പയാമി
 5 സര്‍വ്വപിതൃഗണപത്നീസ്തര്‍പ്പയാമി
ഊര്‍ജ്ജം വഹന്തീഃ അമൃതം ഘൃതം പയഃ കീലാലം പരിസ്രുതം സ്വധാസ്ഥ തര്‍പയത മേ പിതൄന്‍ തൃപ്യത തൃപ്യത തൃപ്യത
ഉപവീതി ആചമനം


3  ഉപാകര്‍മ്മ മഹാസങ്കല്‍പ്പം
ശുക്ലാംബരധരം വിഷ്ണും ശശിവര്‍ണ്ണം  ചതുര്‍ഭുജം പ്രസന്നവദനം ധ്യായേത് സര്‍വ്വ വിഘ്നോപശാന്തയേ।
ഓം ഭൂഃ.. മമോപാത്ത സമസ്ത ദുരിതക്ഷയദ്വാരാ ശ്രീ പരമേശ്വര പ്രീത്യര്‍ത്ഥം തദേവ ലഗ്നം സുദിനം തദേവ താരാബലം ചന്ദ്രബലം തദേവ വിദ്യാബലം ദൈവബലം തദേവ ലക്ഷ്മീപതേഃ അങ്ഘ്രിയുഗം സ്മരാമി. അപവിത്രഃ പവിത്രോ വാ സര്‍വ്വാവസ്ഥാം ഗതോഽപി വാ യഃ സ്മരേത് പുണ്ഡരീകാക്ഷം സ ബാഹ്യ ആഭ്യന്തരഃ ശുചിഃ.  മാനസം വാചികം പാപം കര്‍മ്മണാ സമുപാര്‍ജിതം ശ്രീരാമസ്മരണേനൈവ വ്യപോഹതി ന സംശയഃ. ശ്രീ രാമ രാമ രാമ തിഥിര്‍ വിഷ്ണുഃ തഥാ വാരഃ നക്ഷത്രം വിഷ്ണുരേവ ച. യോഗശ്ച കരണം ചൈവ സര്‍വ്വം വിഷ്ണുമയം ജഗത്. ശ്രീ ഗോവിന്ദ ഗോവിന്ദ ഗോവിന്ദ. ആദ്യശ്രീ ഭഗവതഃ ആദിവിഷ്ണോഃ ആദിനാരായണസ്യ അചിന്ത്യയാ അപരിമിതയാ ശക്ത്യാ ഭ്രിയമാണസ്യ മഹാജലൌഖസ്യ മധ്യേ പരിഭ്രമതാം അനേകകോടി ബ്രഹ്മാണ്ഡാനാം മധ്യേ ഏകതമേ അവ്യക്ത മഹദഹങ്കാര പൃഥിവ്യപ്തേജ വായ്വാകാശാദ്യൈഃ ആവരണൈഃ ആവൃതേ അസ്മിന്‍ മഹതി ബ്രഹ്മാണ്ഡകരണ്ഡകമധ്യേ ആധാരശക്തി ആദികൂര്‍മ്മാദ്യനന്താദി അഷ്ടദിഗ്ഗജോപരി പ്രതിഷ്ഠിതസ്യ അതല വിതല സുതല രസാതല തലാതല മഹാതല പാതാളാഖ്യ ലോകസപ്തകസ്യ ഉപരിതലേ പുണ്യകൃതാം നിവാസഭൂതേ ഭുവസ്സുവഃ മഹര്‍ജ്ജന തപസ്സത്യാഖ്യ ലോകഷട്കസ്യ അധോഭാഗേ മഹാനാളായമാനഫണിരാജശേഷസ്യ സഹസ്രഫണാമണി മണ്ഡല മണ്ഡിതേ ദിഗ്ദന്തി ശുണ്ഡാദണ്ഡ ഉത്തംഭിതേ പഞ്ചാശത്കോടിയോജന വിസ്തീര്‍ണ്ണേ ലോകാലോക അചലേന വലയിതേ ലവണേക്ഷു സുരാസര്‍പി ദധി ക്ഷീര ശുദ്ധോദകാര്‍ണ്ണവൈഃ പരിവൃതേ ജംബൂപ്ലക്ഷശാകശാല്‍മലീ    കുശക്രൌഞ്ച പുഷ്കരാഖ്യ സപ്തദ്വീപാനാം മധ്യേ ജംബൂദ്വീപേ മഹാസരോരുഹേ രൂപകേസരാകാര തികൂട ചിത്രകൂടാദി അചല പരിവൃത കര്‍ണികാകാര സുമേരും അഭിതഃ തദാധാരഭൂതേ ഭൂമണ്ഡലേ ലക്ഷയോജനവിസ്തീര്‍ണ്ണേ മഹാമേരു നിഷധ ഹേമകൂട ഹിമാചലാനാം ഇളാവൃത ഹരികിംപുരുഷ വര്‍ഷാണാംച ദക്ഷിണേ നവസഹസ്രയോജനവിസ്തീര്‍ണ്ണേ  ഇന്ദ്ര കശേരു താമ്ര ഗഭസ്തിമത് നാകസൌമ്യ  ഗന്ധര്‍വ്വ ചാരണ ഭാരതാഖ്യ നവവര്‍ഷാത്മകേ ഭാരതവര്‍ഷെ   സ്വര്‍ണ്ണപ്രസ്ഥ ചന്ദ്രയുക്ത അജാവര്‍ത്തി രമണക മങ്ഗല മഹാരണ പാഞ്ചജന സിംഹള ലങ്കാഖ്യ നവഖണ്ഡാത്മകേ ഭരതഖണ്ഡേ സ്വാമിശൈല അവന്തി കുരുക്ഷേത്ര ദണ്ഡകാരണ്യ മലയാചല സമഭൂമധ്യരേഖായാഃ പൂര്വ്വദിഗ്ഭാഗേ ശ്രീശൈലസ്യ ആഗ്നേയദിഗ്ഭാഗേ ശ്രീരാമസേതുഗങ്ഗായോഃ മധ്യപ്രദേശേ പരശുരാമക്ഷേത്രേ പരാര്‍ദ്ധദ്വയജിവിനഃ ബ്രഹ്മണഃ പ്രഥമേ പരാര്‍ദ്ധെ പഞ്ചാശത് അബ്ദാത്മികേ അതീതേ ദ്വിതീയ പരാര്‍ദ്ധെ പഞ്ചാശത് അബ്ദാദൌ പ്രഥമേ വര്‍ഷേ പ്രഥമേ മാസേ പ്രഥമേ പക്ഷേ പ്രഥമേ ദിവസേ അഹനി ദ്വിതീയേ യാമേ തൃതീയേ മുഹൂര്‍ത്തേ സ്വായംഭുവ വ സ്വാരോചിഷ ഉത്തമ താമസ രൈവത ചാക്ഷുസാഖ്യേഷു ഷട്സു മനുഷു വ്യതീതേഷു സപ്തമേ വൈവസ്വതമന്വന്തരേ അഷ്ടാവിംശതിതമേ കൃത ത്രേതാ ദ്വാപര കലിയുഗാത്മകേ ചതുര്യുഗേ തത്ര കലിയുഗേ പ്രഥമേ പാദേ സൌര ചാന്ദ്ര സാവന നാക്ഷത്രമാനൈഃ അനുമിതേ ശാലീവാഹന ശകാബ്ദേ പ്രഭവാദീനാം ഷഷ്ടിസംവത്സരാണാം മദ്ധ്യേ ശാര്‍വ്വരീ നാമ സംവത്സരേ ദക്ഷിണായനേ ഗ്രീഷ്മ  ഋതൌ കടകമാസേ  ശുക്ളപക്ഷേ അദ്യ പൌര്‍ണമാസ്യാം ശുഭതിഥൌ ഇന്ദുവാസരയുക്തായാം ശ്രവണ നക്ഷത്ര യുക്തായാം ശുഭയോഗ ശുഭകരണ ഏവം ഗുണ വിശേഷണ വിശിഷ്ടായാം പൌര്‍ണമാസ്യാം ശുഭതിഥൌ മമോപാത്ത സമസ്ത ദുരിതക്ഷയദ്വാരാ ശ്രീ പരമേശ്വര പ്രീത്യര്‍ത്ഥംഅനാദി അവിദ്യാ വാസനയാ പ്രവര്‍ത്തമാനേ അസ്മിന്‍ മഹതി സംസാരചക്രേ വിചിത്രാഭിഃ കര്‍മ്മഗതിഭിഃ വിചിത്രാസു പശു പക്ഷി മൃഗാദി യോനിഷു പുനഃ പുനഃ അനേകദാ ജനിത്വാ കേനാപി പുണ്യകര്‍മ്മവിശേഷേണ ഇദാനീംതന    മാനുഷ്യേ ദ്വിജന്മവിശേഷം പ്രാപ്തവതഃ മമ ജന്മാഭ്യാസാത് ജന്മപ്രഭൃതി ഏതദ് ക്ഷണ പര്യന്തം ബാല്യേ വയസി കൌമാരേ യൌവനേ വാര്‍ദ്ധക്യേ  ച ജാഗ്രത് സ്വപ്ന സുഷുപ്തി അവസ്ഥാസു മനോ വാക്കായ കര്‍മ്മേന്ദ്രിയ വ്യാപാരൈഃ ജ്ഞാനേന്ദ്രിയ വ്യാപാരൈഃ കാമ ക്രോധ ലോഭ മോഹ മദ മാത്സര്യാദിഭീഃ സംഭാവിതാനാം സംസര്‍ഗ്ഗനിമിത്താനാം ഭൂയോ ഭൂയോഽഭ്യസ്ഥാനാം സമപാതകാനാം അതിപാതകാനാം ഉപപാതകാനാം സങ്കരീകരണാനാം മലിനീകരണാനാം അപാത്രീകരണാനാം ജാതിഭ്രംശകരാണാം പ്രകീര്‍ണ്ണകാനാം ജ്ഞാനതഃ സകൃത്കൃതാനാം അജ്ഞാനതഃ അസകൃത്കൃതാനാം ജ്ഞാനതഃ അജ്ഞാനതശ്ച അഭ്യസ്താനാം നിരന്തര അഭ്യസ്താനാം ചിരകാല അഭ്യസ്താനാം ഏവം നവാനാം നവവിധാനാം ബഹൂനാം ബഹുവിധാനാം സര്‍വ്വേഷാം പാപാനാം സദ്യഃ അപനോദന ദ്വാരാ സമസ്ത പാപക്ഷയാര്‍ത്ഥം ദേവബ്രാഹ്മണ സന്നിധൌ അശ്വത്ഥ നാരായണ സന്നിധൌ ത്രയസ്ത്രിംശത്കോടി സമസ്ത ദേവതാ സന്നിധൌ ശ്രീ വിശാലാക്ഷീസമേത ശ്രീ വിശ്വേശ്വരസ്വാമി സന്നിധൌ നിളാഭൂമീലക്ഷ്മീ സമേത ശ്രീ ലക്ഷ്മീനാരയണസ്വാമി സന്നിധൌ സീതലക്ഷ്മണഭരതശത്രുഘ്ന ഹനൂമത് സമേത ശ്രീ രാമചന്ദ്രസ്വാമിസന്നിധൌ ശ്രീ വല്ലീദേവസേനാ സമേത ശ്രീ സുബ്രഹ്മണ്യസ്വാമി സന്നിധൌ ശ്രീ ഹരിഹരപുത്രസ്വാമി സന്നിധൌ ശ്രാവണ്യാം പൌര്‍ണമാസ്യാം അധ്യയോപാകര്‍മ്മ കരിഷ്യേ.(ദ്വിഃ).
തദംഗം ശ്രാവണീപൌര്‍ണമാസീ പുണ്യകാലേ മഹാനദ്യാം ശിവഗങ്ഗാ സ്നാനമഹം കരിഷ്യേ.
അതിക്രൂര മഹാകായ കല്‍പ്പാന്ത ദഹനോപമ ഭൈരവായ നമസ്തുഭ്യം അനുജ്ഞാം ദാതും അര്‍ഹസി.
ഗോവിന്ദനാമ സംകീര്‍ത്തനം ഗോവിന്ദ ഗോവിന്ദ.


4। യജ്ഞോപവീത ധാരണ മന്ത്രഃ
ശുക്ളാം-- ശാന്തയേ മമോപാത്ത സമസ്ത------ പ്രീത്യര്‍ത്ഥം ശ്രൌത സ്മാര്‍ത്ത വിഹിത സദാചാര നിത്യകര്‍മ്മ അനുഷ്ഠാന യോഗ്യതാ സിദ്ധ്യര്‍ത്ഥം ബ്രഹ്മതേജോ അഭിവൃദ്ധ്യര്‍ത്ഥം യജ്ഞോപവീത ധാരണം കരിഷ്യേ॥
യജ്ഞോപവീത ധാരണ മഹാമന്ത്രസ്യ പരബ്രഹ്മ ഋഷി ത്രിഷ്ടുഭ് ച്ഛന്ദഃ പരമാത്മാ ദേവതാ യജ്ഞോപവീതധാരണേ വിനിയോഗഃ
 (നൂതന യജ്ഞോപവീത ധാരണ മന്ത്രഃ)
യജ്ഞോപവീതം പരമം പവിത്രം പ്രജാപതേഃ യത് സഹജം പുരസ്താത് ആയുഷ്യം അഗ്രിമും പ്രതിമുഞ്ച ശുഭ്രം യജ്ഞോപവീതം ബലം അസ്തു തേജഃ.
ഓം ഭൂഃ ഭുവഃ സുവഃ
(ജീര്‍ണ്ണ യജ്ഞോപവീത നിരസന മന്ത്രഃ )
ഉപവീതം ഭിന്നതന്തും ജീര്‍ണ്ണം കശ്മല ദൂഷിതം വിസൃജാമി നഹി ബ്രഹ്മ വര്‍ച്ചഃ ദീര്ഘായുരസ്തു മേ.
ആചമ്യ॥

5 കാണ്ഡഋഷി തര്‍പ്പണം
തിലാക്ഷതാന്‍ ഗൃഹീത്വാ ആചമ്യ ശുക്ലാംബരധരം ----ശാന്തയേ   ഓം ഭൂഃ---ഓം അദ്യ പൂര്‍വോക്ത ഏവം ഗുണ വിശേഷണ വിശിഷ്ടായാം അസ്യാം പൌര്‍ണമാസ്യാം ശുഭതിഥൌ മമോപാത്ത സമസ്ത ദുരിതക്ഷയദ്വാരാ ശ്രീ പരമേശ്വര പ്രീത്യര്‍ത്ഥം ശ്രാവണിപൌര്‍ണമാസീ പുണ്യകാലേ അദ്ധ്യായോപകര്മാങ്ഗം പ്രാജാപത്യാദി കാണ്ഡഋഷി തര്‍പ്പണം കരിഷ്യേ
 തിലാക്ഷതാന്‍ ഗൃഹീത്വാ നിവീതിനഃ ത്രിഃ ത്രിഃ
 1 പ്രജാപതിം കാണ്ഡഋഷിം തര്‍പ്പയാമി
2സോമം കാണ്ഡഋഷിം തര്‍പ്പയാമി
3 അഗ്നിം കാണ്ഡഋഷിം തര്‍പ്പയാമി
4 വിശ്വാന് ദേവാന്‍ കാണ്ഡഋഷീന്‍ തര്‍പ്പയാമി
5 സാംഹിതീര്‍ ദേവതാഃ ഉപനിഷദഃ തര്‍പ്പയാമി
6 യജ്ഞികീര്‍ ദേവതാഃ ഉപനിഷദഃ തര്‍പ്പയാമി
7 വാരുണീര്‍ ദേവതാഃ ഉപനിഷദഃ തര്‍പ്പയാമി
8 ബ്രഹ്മാണം സ്വയംഭുവം തര്‍പ്പയാമി
9 സദസസ്പതിം തര്‍പ്പയാമി
ഉപവീതി ആചമനം

ഗായത്രീ ജപം
04-08-2020  ചൊവ്വാഴ്ച്
6  ഗായത്രീ ജപ സങ്കല്‍പ്പഃ
പവിത്രം ധൃത്വാ ദര്‍ഭേഷ്വാസീനഃ ദര്‍ഭാന്‍ ധാരയമാണഃ ശുക്ളാംബരധരം വിഷ്ണും ശശിവര്‍ണ്ണം ചതുര്‍ഭുജം പ്രസന്നവദനം ധ്യായേത് സര്‍വ്വ വിഘ്നോപശാന്തയേ --  ഓം ഭൂഃ—പ്രാണാന്‍ ആയമ്യ   മമോപാത്ത സമസ്ത ദുരിതക്ഷയദ്വാരാ ശ്രീ ---- പ്രീത്യര്‍ത്ഥം ശുഭേ ശോഭനേ മുഹൂര്‍ത്തേ   ആദ്യബ്രഹ്മണഃ ദ്വിതീയ പരാര്‍ദ്ധെ  ശ്വേതവരാഹകല്‍പ്പേ വൈവസ്വത മന്വന്തരേ അഷ്ടാവിംശതി തമേ കലിയുഗേ പ്രഥമേ പാദേ ജംബൂദ്വീപേ ഭാരതവര്‍ഷേ ഭരത ഖണ്ഡേ മേരോഃ ദക്ഷിണേ പാര്‍ശ്വേ ശകാബ്ദേ അസ്മിന്‍ വര്‍ത്തമാനേ വ്യാവഹാരികേ പ്രഭവാദി ഷഷ്ടി സംവത്സരാണാം മധ്യേ ശാര്‍വ്വരീ നാമ സംവത്സരേ ദക്ഷിണായനേ ഗ്രീഷ്മ  ഋതൌ കടക മാസേ കൃഷ്ണ പക്ഷേ അദ്യ പ്രഥമായാം ശുഭതിഥൌ ഭൌമ  വാസര യുക്തായാം ശ്രവിഷ്ഠാ നക്ഷത്ര യുക്തായാം ശുഭയോഗ ശുഭകരണ ഏവം ഗുണ വിശേഷണ
വിശിഷ്ടായാം അസ്യാം പ്രഥമായാം ശുഭതിഥൌ
മിഥ്യാതീത പ്രായശ്ചിത്താര്‍ത്ഥം ദോഷവത് അപതനീയ പ്രായശ്ചിത്താര്‍ത്ഥം സംവത്സര പ്രായശ്ചിത്താര്‍ത്ഥം
അഷ്ടോത്തര സഹസ്ര സംഖ്യയാ ഗായത്രീ മഹമന്ത്രജപം കരിഷ്യേ
ദര്‍ഭാന്‍ ഉത്തരതോ നിരസ്യ
പ്രണവസ്യ ഋഷിഃ--- ദേവതാ॥ ഭൂരാദി-- ദേവതാ॥ ഇതി ന്യസ്യ ദശവാരം പ്രാണായാമം കുര്യാത്
ആയാത്വിത്യനുവാകസ്യ-------------- പരമാത്മാ ദേവത.
ഗായത്രീ ജപം അഷ്ടോത്തരസഹസ്രവാരം.
ഉപസ്ഥാനം..
ഗായത്ര്യുപസ്ഥാനം കരിഷ്യേ. ഉത്തമേ---സുഖം..
 അഭിവാദനം നമസ്കാരം പവിത്രം വിസൃജ്യ ആചമ്യ।

1 comment: