compiled by K V Ananthanarayanan Sekharipuruam Palakkad
1 यजुरुपाकर्मम् कामोकार्षीत् जपम्
पवित्रम् धृत्वा दर्भेष्वासीनः दर्भान् धारयमाणः शुक्ळाम्बरधरम् विष्णुम् शशिवर्णम् चतुर्भुजम् प्रसन्नवदनम् ध्यायेत् सर्वविघ्नोपशान्तये ॥ ॐ भूः प्राणायाम ममोपात्त समस्त दुरितक्षयद्वारा श्री ---- प्रीत्यर्थम् शुभे शोभने मुहूर्ते आद्यब्रह्मणः द्वितीय परार्धे श्वेतवराहकल्पे वैवस्वत मन्वन्तरे अष्टाविम्शति तमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरत खण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिके प्रभवादि षष्टि सम्वत्सराणाम् मध्ये दुर्मुखी नाम सम्वत्सरे दक्षिणायने वर्ष ऋतौ श्रावण मासे शुक्ळपक्षे अद्य पौर्णमास्याम् शुभ तिथौ गुरु वासर युक्तायाम् श्रविष्ठा नक्क्षत्र युक्तायाम् शुभयोग शुभकरण एवम् गुण विशेषण विशिष्टायाम् अस्याम् पौर्णमास्याम् शुभतिथौ तैष्याम् पौर्णमास्याम् अध्याय उत्सर्जन अकरण प्रायश्चिथार्त्तम् अष्टोत्तर सहस्र सङ्ख्यया कामोकार्षीत् मन्युरकारीत् महमन्त्रजपम् करिष्ये ॥ दर्भान् उत्तरतो निरस्य॥ प्रणवस्य--इति जपित्वा दशवारम् प्राणान् आयम्य अष्टोत्तरसहरवारम् कामोकार्षीत् मन्युरकार्षित् नमो नमः इति जपेत् जपावसाने काममन्युरुपस्थानम् करिष्ये इति उपस्थानम् कुर्यात्॥ उत्तमे शिखरे देवि भूम्याम् पर्वत मूर्धनि ब्राह्मणेभ्योह्यनुज्ञानम् गच्छ देवि यथा सुखम् अभिवादनम् कृत्वा नमस्कुर्यात् पवित्रम् विसृज्य आचमेत्॥
2 ॥ब्रह्मयज्ञः॥
आचम्य प्राङ्मुखाः उदङ्मुखो वा पवित्रपाणिः आसीनः सङ्कल्पम् कुर्यात्। शुक्ळाम्----शान्तये। ममोपात्त समस्त-------प्रीत्यर्थम् ब्रह्मयज्ञम् करिष्ये ब्रह्मयज्ञेन यक्ष्ये। विद्युदसि विद्य मे पापानमृतात् सत्यमुपैमि इति मन्त्रेण हस्तौ आ मणिबन्धम् प्रक्षाल्य ॐ भूः तत् सवितुर् वरेण्यम् ॐ भुवः भर्गो देवस्य धीमहि ओग्म् सुवः धियो यो नः प्रचोदयात् ॐ भूः तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि ॐ भुवः धियो यो नः प्रचोदयात् ओग्म् सुवः तत् सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ अग्निमीळे पुरोहितम् यज्ञस्य देवम् ऋत्विजम् होतारम् रत्नधातमम् ऋक् वेदः ॐ इषे त्वा ऊर्जे त्वा वायवस्थ उपायवस्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे यजुर्वेदः ॐ अग्न आयाहि वीतये गृणानो हव्य दातये नि होता सत्सि बर्हिषि सामवेदः ॐ शन्नो देवीरभिष्टय आपो भवन्तु पीतये शम्योरभिस्रवन्तु नः अथर्वण वेदः इति जप्त्वा तदनन्तरं सत्यम् तपः श्रद्धायाम् जुहोमि इति मन्त्रेण आत्मानम् परिषिच्य परिधानीयम् ऋचम् त्रिः जपेत् ॐ नमो ब्रह्मणे नमोऽस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि। वृष्टिरसि वृश्च पाप्मानमृतात् सत्यमुपागाम् इति हस्तौ पूर्व्ववत् आ मणिबन्धात् प्रक्षाळयेत् देव ऋषि पितृ तर्पणम् शुक्ळाम्बरधरम्----शानतये। ममोपात्त॥। प्रीत्यर्थम् देव ऋषि पितृ तर्पणम् करिष्य -- जीवत् पितृकाः देव ऋषि तर्पणम् करिष्ये इति सङ्कल्पम् कुर्युः। १ देव तर्पणम् देवतीर्थेन अङ्गुल्यग्रेण सकृत् सकृत् देवान् तर्पयेत् १ ब्रह्मादयो यो देवाः तान् देवान् तर्पयामि २ सर्वान् देवान् तर्पयामि ३ सर्व्वदेवगणान् तर्प्यामि ४ सर्व्वदेवपत्नीः तर्पयामि ५ सर्व्वदेवगणपत्नीः तर्पयामि २ ऋषितर्पणम् नीवीति ऋषितीर्थेन हस्तयो मध्येन द्विः द्विः ऋषीन् तर्पयेत् १ कृष्णद्वैपायनादयः ये ये ऋषायः तान् ऋषीन् तर्पयामि २ सर्व्वान् ऋषीन् तर्पयामि ३ सर्व्वऋषिगणान् तर्पयामि ४ सर्व्वर्षिपत्नीन् तर्पयामि ५ सव्वर्षिगणपत्नीन् तर्पयामि ६ प्रजापतिम् काण्डऋषिम् तर्पयामि ७ सोमम् काण्डऋषिम् तर्पयामि ८ अग्निम् काण्डऋषिम् तर्पयामि ९ विश्वान् देवान् काण्डर्षीन् तर्पयामि १० साम्हितीर्देवता उपनिषदः तर्पयामि ११ याज्ञिकीर्देवता उपनिषदः तर्पयामि १२ वारुणीर्देवता उपनिषदः तर्पयामि १३ हव्यवाहम् तर्पयामि १४ विश्वान् देवान् काण्डर्षीन् तर्पयामि १५ ब्रह्माणम् स्वयम्भुवम् तर्पयामि १६ विश्वान् देवान् काण्डर्षीन् तर्पयामि १७ अरुणान् काण्डर्षीन् तर्पयामि १८ सदसस्पतिम् तर्पयामि १९ ऋग्वेदम् तर्पयामि २० यजुर्वेदम् तर्पयामि २१ सामवेदम् तर्पयामि २२ अथर्व्वणवेदम् तर्पयामि २३ इतिहासपुराणम् तर्पयामि २४ कल्पम् तर्पयामि ३ पितृतर्पणम् प्राचीनावीतिः पितृतीर्थेन अङ्गुष्ठस्य तर्ज्जन्याश्च मद्ध्यभागेन पितॄन् त्रिः त्रिः तर्पयेत् १ सोमः पितृमान् यमो अङ्गिरस्वान् अग्निः कव्यवाहनः इत्यादयः ये पितरः तान् पितॄन् तर्पयामि २ सर्व्वान् पितॄन्स्तर्पयामि ३ सर्व्वपितृगणान् तर्पयामि ४ सर्व्वपितृपत्नीस्तर्पयामि ५ सर्व्वपितृगण्पत्नीस्तर्पयामि ऊर्ज्जम् वहन्तीः अमृतम् घृतम् पयः कीलालम् परिस्रुतम् स्वधास्थ तर्पयत मे पितॄन् तृप्यत तृप्यत तृप्यत उपवीति आचमनम्
3 उपाकर्म महासङ्कल्पम्
शुक्ळाम्बरधरम् विष्णुम् शशिवर्णम् चतुर्भुजम् प्रसन्नवदनम् ध्यायेत् सर्वविघ्नोपशान्तये। ॐ भूः॥॥ ममोपात्त समस्त दुरितक्षयद्वारा श्री परमेश्वर प्रीत्यर्थम् तदेव लग्नम् सुदिनम् तदेव ताराबलम् चन्द्रबलम् तदेव विद्याबलम् दैवबलम् तदेव लक्ष्मीपतेः अङ्घ्रियुगम् स्मरामि। अपवित्रः पवित्रो वा सर्वावस्थाम् गतोऽपि वा यः स्मरेत् पुण्डरीकाक्षम् स बाह्य आभ्यन्तरः शुचिः। मानसम् वाचिकम् पापम् कर्मणा समुपार्जितम् श्रीरामस्मरणेनैव व्यपोहति न सम्शयः। श्री राम राम राम तिथिर् विष्णुः तथा वारः नक्षत्रम् विष्णुरेव च। योगश्च करणम् चैव सर्वम् विष्णुमयम् जगत्। श्री गोविन्द गोविन्द गोविन्द। आद्यश्री भगवतः आदिविष्णोः आदिनारायणस्य अचिन्त्यया अपरिमितया शक्त्या भ्रियमाणस्य महाजलौखस्य मध्ये परिभ्रमताम् अनेककोटि ब्रह्माण्डानाम् मध्ये एकतमे अव्यक्त महदहङ्कार पृथिव्यप्तेज वाय्वाकाशाद्यैः आवरणैः आवृते अस्मिन् महति ब्रह्माण्डकरण्डकमध्ये आधारशक्ति आदिकूर्म्माद्यनन्तादि अष्टदिग्गजोपरि प्रतिष्टितस्य अतल वितल सुतल रसातल तलातल महातल पाताळाख्य लोकसप्तकस्य उपरितले पुण्यकृताम् निवासभूते भुवस्सुवः महर्ज्जन तपस्सत्याख्य लोकषट्कस्य अधोभागे महानाळायमानफणिराजशेषस्य सहस्र फणामणि मण्डल मण्डिते दिग्दन्ति शुण्डादण्ड उत्तम्भिते पञ्चाशत्कोटियोजन विस्तीर्ण्णे लोकालोक अचलेन वलयिते लवणेक्षु सुरासर्पि दधि क्षीर शुद्धोदकार्ण्णवैः परिवृते जम्बूप्लक्षशाकशाल्मली कुशक्रौञ्च पुष्कराख्य सप्तद्वीपानाम् मध्ये जम्बूद्वीपे महासरोरुहे रूप केसराकार तिकूट चित्रकूटादि अचल परिवृत कर्ण्णीकाकार सुमेरुम् अभितः तदाधारभूते भूमण्डले लक्षयोजनविस्तीर्णे महामेरु निषध हेमकूट हिमाचलानाम् इळावृत हरिकिम्पुरुष वर्षाणाम् च दक्षिणे नव सहस्रयोजनविस्तीर्णे इन्द्र कशेरु ताम्र गभस्तिमत् नाकसौम्य गन्धर्व चारण भारताख्य नववर्षात्मके भारतवर्षे स्वर्णप्रस्थ चन्द्रयुक्त अजावर्त्ति रमणक मङ्गल महारण पाञ्चजन सिम्हळ लङ्काख्य नवखण्डात्मके भरतखण्डे स्वामिशैल अवन्ति कुरुक्षेत्र दण्डकारण्य मलयाचल समभूमध्यरेखायाः पूर्व्वदिग्भागे श्रीशैलस्य आग्नेयदिग्भागे श्रीरामसेतुगङ्गायोः मध्यप्रदेशे परशुरामक्षेत्रे परार्धद्वयजिविनः ब्रह्मणः प्रथमे परार्धे पञ्चाशत् अब्दात्मिके अतीते द्वितीय परार्धे पञ्चाशत् अब्दादौ प्रथमे वर्षे प्रथमे मासे प्रथमे पक्षे प्रथमे दिवसे अहनि द्वितीये यामे तृतीये मुहूर्ते स्वायम्भुव स्वारोचिष उत्तम तामस रैवत चाक्षुसाख्येषु षट्सु मनुषु व्यतीतेषु सप्तमे वैवस्वतमन्वन्तरे अष्टाविम्शतितमे कृत त्रेता द्वापर कलियुगात्मके चतुर्युगे तत्र कलियुगे प्रथमेपादे सौर चान्द्र सावन नाक्षत्रमानैः अनुमिते शालीवाहन शकाब्दे प्रभवादीनाम् षष्टिसम्वत्सराणाम् मद्ध्ये दुर्मुखी नाम सम्वत्सरे दक्षिणायने वर्ष ऋतौ सिम्हमासे शुक्ळपक्षे अद्य पौर्णमास्याम् शुभतिथौ गुरुवासरयुक्तायाम् श्रविष्टा नक्षत्र युक्तायाम् शुभयोग शुभकरण एवम् गुण विशेषण विशिष्टायाम् पौर्णमास्याम् शुभतिथौ ममोपात्त समस्त दुरितक्षयद्वारा श्री परमेश्वर प्रीत्यर्थम् अनादि अविद्या वासनया प्रवर्त्तमाने अस्मिन् महति सम्सारचक्रे विचित्राभिः कर्म्मगतिभिः विचित्रासु पशु पक्षि मृगादि योनिषु पुनः पुनः अनेकदा जनित्वा केनापि पुण्यकर्म्मविशेषेण इदानीम्तन मानुष्ये द्विजन्मविशेषम् प्राप्तवतः मम जन्माभ्यासात् जन्मप्रभृति एतद् क्षण पर्यन्तम् बाल्ये वयसि कौमारे यौवने वार्द्धक्ये च जाग्रत् स्वप्न सुषुप्ति अवस्थासु मनो वाक्काय कर्म्मेन्द्रिय व्यापारैः ज्ञानेन्द्रिय व्यापारैः काम क्रोध लोभ मोह मद मात्सर्यादिभीः सम्भावितानाम् सम्सर्ग्गनिमित्तानाम् भूयो भूयोऽभ्यस्थानाम् समपातकानाम् अतिपातकानाम् उपपातकानाम् सङ्करीकरणानाम् मलिनीकरणानाम् अपात्रीकरणानाम् जातिभ्रम्शकराणाम् प्रकीर्ण्णकानाम् ज्ञानतः सकृत्कृतानाम् अज्ञानतः असकृत्कृतानाम् ज्ञानतः अज्ञानतश्च अभ्यस्थानाम् निरन्तर अभ्यस्थानाम् चिरकाल अभ्यस्थानाम् एवम् नवानाम् नवविधानाम् बहूनाम् बहुविधानाम् सर्वेषाम् पापानाम् सद्यः अपनोदन द्वारा समस्त पापक्षयार्थम् देवब्राह्मण सन्निधौ अश्वत्थ नारायण सन्निधौ त्रयस्त्रिम्शत्कोटि समस्त देवता सन्निधौ श्री विशालाक्षीसमेता श्री विश्वेश्वरस्वामि सन्निधौ निळाभूमीलक्ष्मी समेत श्री लक्ष्मीनारयणस्वामि सन्निधौ सीतलक्ष्मणभरतशत्रुघ्न हनूमत् समेत श्री रामचन्द्रस्वामिसन्निधौ श्री वल्लीदेवसेना समेत श्री सुब्रह्मण्यस्वमि सन्निधौ श्री हरिहरपुत्रस्वामि सन्निधौ श्रावण्याम् पौर्णमास्याम् अध्ययोपाकर्म करिष्ये।द्विः। तदङ्गम् श्रावणीपौर्ण्णमासी पुण्यकाले महानद्याम् शिवगङ्गा स्नानमहम् करिष्ये॥ अतिक्रूर महाकाय कल्पान्त दहनोपम भैरवाय नमस्तुभ्यम् अनुज्ञाम् दातुम् अर्हसि। गोविन्दनाम सङ्कीर्तनम् गोविन्द गोविन्द।
4. यज्ञोपवीत धारण मन्त्रः
शुक्ळाम्-- शान्तये ममोपात्त समस्त------ प्रीत्यर्थम् श्रौत स्मार्त्त विहित सदाचार नित्यकर्म अनुष्टान योग्यता सिद्ध्यर्थम् ब्रह्मतेजो अभिवृद्ध्यर्थम् यज्ञोपवीत धारणम् करिष्ये॥ यज्ञोपवीत धारण महामन्त्रस्य परब्रह्म ऋषि त्रिष्टुप् च्छन्दः परमात्मा देवता यज्ञोपवीतधारणे विनियोगः नूतन यज्ञोपवीत धारण मन्त्रः यज्ञोपवीतम् परमम् पवित्रम् प्रजापतेः यत् सहजम् पुरस्तात् आयुष्यम् अग्रिमुम् प्रतिमुञ्च शुभ्रम् यज्ञोपवीतम् बलम् अस्तु तेजः। ॐ भूः भुवः सुवः जीर्ण यज्ञोपवीत निरसन मन्त्रः उपवीतम् भिन्नतन्तुम् जीर्णम् कश्मल दूषितम् विसृजामि नहि ब्रह्म वर्चः दीर्घायुरस्तु मे॥ आचम्य॥
5 काण्डऋषि तर्पणम्
तिलाक्षतान् गृहीत्वा आचम्य शुक्ळाम्बरधरम् ----शान्तये ॐ भूः---ॐ अद्य पूर्वोक्त एवं गुण विशेषण विशिष्टायाम् अस्याम् पौर्णमास्याम् शुभतिथौ ममोपात्त समस्त दुरितक्षयद्वारा श्री परमेश्वर प्रीत्त्यर्थम् श्रावणिपौर्णमासी पुण्यकाले अद्ध्यायोपकर्माङ्गम् प्राजापत्यादि काण्डऋषि तर्पणम् करिष्ये तिलाक्षतान् गृहीत्वा निवीतिनः त्रिः त्रिः १ प्रजापतिम् काण्डऋषिम् तर्पयामि २ सोमम् काण्डऋषिम् तर्पयामि ३ अग्निम् काण्डऋषिम् तर्पयामि ४ विश्वान् देवान् काण्डऋषीन् तर्पयामि ५ साम्हितीर् देवताः उपनिषदः तर्पयामि ६ यज्ञिकीर् देवताः उपनिषदः तर्पयामि ७ वारुणीर् देवताः उपनिषदः तर्पयामि ८ ब्रह्माणम् स्वयम्भुवम् तर्पयामि ९ सदसस्पतिम् तर्पयामि उपवीति आचमनम्
5 गायत्री जप सङ्कल्पः
पवित्रम् धृत्वा दर्भेष्वसीनः दर्भान् धारयमाणः शुक्ळाम्बरधरम् विष्णुम् शशिवर्णम् चतुर्भुजम् प्रसन्नवदनम् ध्यायेत् सर्वविघ्नोपशान्तये ॐ भूः प्राणान् आयाम ममोपात्त समस्त दुरितक्षयद्वारा श्री ---- प्रीत्यर्थम् शुभे शोभने मुहूर्ते आद्यब्रह्मणः द्वितीय परार्धे श्वेतवराहकल्पे वैवस्वत मन्वन्तरे अष्टाविम्शति तमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरत खण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिके प्रभवादि षष्टि सम्वत्सराणाम् मध्ये दुर्मुखी नाम सम्वत्सरे दक्षिणायने वर्ष ऋतौ श्रावण मासे कृष्ण पक्षे अद्य प्रथमायाम् शुभ तिथौ शुक्र वासर युक्तायाम् शतभिषङ्ग् नक्षत्र युक्तायाम् शुभयोग शुभकरण एवम् गुण विशेषण विशिष्टायाम् अस्याम् प्रथमायाम् शुभतिथौ मिथ्यातीत प्रायश्चित्तार्थम् दोषवत् अपतनीयप्रायश्चित्तार्थम् सम्वत्सर प्रायश्चित्तार्थम् अष्टोत्तर सहस्र सङ्ख्यया गायत्री महमन्त्रजपम् करिष्ये दर्भान् उत्तरतो निरस्य प्रणवस्य ऋषिः।--- देवता॥ भूरादि-- देवता॥ इति न्यस्य दशवारम् प्राणायामम् कुर्यात् आयात्वित्यनुवाकस्य-------------- परमात्मा देवता॥ ॥गायत्री जपम् अष्टोत्तरसहस्रवारम्॥ उपस्थानम्॥ गायत्र्युपस्थानम् करिष्ये उत्तमे---सुखम् अभिवादनम् नमस्कारम् पवित्रम् विसृज्य आचम्य।
yajurupAkarmam
kAmokArSIt japam
pavitram dhRRitvA darbheSvAsInaH darbhAn dhArayamANaH
shukLAmbaradharam viSNum shashivarNam caturbhujam prasannavadanam dhyAyet sarvavighnopashAntaye
.. AUM bhUH ( prANAyAma)
mamopAtta samasta duritakSayadvArA shrI ---- prItyartham shubhe shobhane muhUrte AdyabrahmaNaH dvitIya parArdhe shvetavarAhakalpe vaivasvata manvantare aSTaavimshati tame kaliyuge prathame paade jambUdvIpe bhAratavarSe bharata khaNDe meroH dakSiNe pArshve shakaabde asmin vartamAne vyAvahaarike prabhavaadi SaSTi samvatsarANAm madhye durmukhI nAma samvatsare dakSiNAyane varSa RRitau shrAvaNa mAse shukLapakSe adya paurNamAsyaam shubha tithau guru vAsara yuktAyAm shraviSThA nakkSatra yuktAyAm shubhayoga shubhakaraNa evam guNa visheSaNa vishiSTAyAm asyAm paurNamAsyAm shubhatithau taiSyAm paurNamAsyAm adhyAya utsarjana akaraNa prAyashcithArttam aSTottara sahasra sa~NkhyayA kAmokArSIt manyurakArIt mahamantrajapam kariSye .. darbhAn uttarato nirasya..
praNavasya--iti japitvaa dashavAram prANAn Ayamya
aSTottarasaharavAram kAmokArSIt manyurakArSit namo namaH iti japet
japAvasAne kAmamanyurupasthAnam kariSye iti upasthAnam kuryaat.. uttame shikhare devi bhUmyAm parvata mUrdhani brAhmaNebhyohyanuj~naanam gacchha devi yathA sukham
abhivaadanam kRRitvaa namaskuryAt
pavitram visRRijya Acamet..
..brahmayaj~naH..
Acamya prA~NmukhAH uda~Nmukho vA pavitrapANiH AsInaH sa~Nkalpam kuryAt.)
shukLAm----shAntaye. mamopAtta samasta-------prItyartham brahmayaj~nam kariSye brahmayaj~nena yakSye.
vidyudasi vidya me pApAnamRRitAt satyamupaimi ( iti mantreNa hastau A maNibandham prakSAlya)
AUM bhUH tat savitur vareNyam AUM bhuvaH bhargo devasya dhImahi ogm suvaH dhiyo yo naH prachodayAt AUM bhUH tatsaviturvareNyam bhargo devasya dhImahi AUM bhuvaH dhiyo you naH pracodayAt ogm suvaH tat saviturvareNyam bhargo devasya dhImahi dhiyo yo naH pracodayAt.
AUM agnimILe purohitam yaj~nasya devam RRitvijam hotAram ratnadhaatamam RRik vedaH
AUM iSe tvA Urje tvA vAyavastha upAyavastha devo vaH savitA prArpayatu shreSThatamAya karmaNe yajurvedaH
AUM agna AyAhi vItaye gRRiNAno havya dAtaye ni hotA satsi barhiSi sAmavedaH
AUM shanno devIrabhiSTaya Apo bhavantu pItaye shamyorabhisravantu naH atharvaNa vedaH
iti japtvA tadanantaraM
satyam tapaH shraddhAyAm juhomi iti mantreNa AtmAnam pariShicya
paridhAnIyam RRicam triH japet
AUM namo brahmaNe namo.astvagnaye namaH pRRithivyai nama oSadhIbhyaH namo vAce namo vAcaspataye namo viSNave bRRihate karomi.
vRRiSTirasi vRRishca pApmAnamRRitAt satyamupAgAm
iti hastau pUrvvavat A maNibandhAt prakSALayet
deva RRiSi pitRRi tarpaNam
shukLAmbaradharam----shAnataye. mamopAtta ... prItyartham deva RRiSi pitRRi tarpaNam kariSya -- jIvat pitRRikAH deva RRiSi tarpaNam kariSye iti sa~Nkalpam kuryuH.
1 deva tarpaNam devatIrthena a~NgulyagreNa sakRRit sakRRit devAn tarpayet
1 brahmAdayo yo devAH tAn devAn tarpayAmi
2 sarvAn devAn tarpayAmi
3 sarvvadevagaNAn tarpyAmi
4 sarvvadevapatnIH tarpayAmi
5 sarvvadevagaNapatnIH tarpayAmi
2 RRiSitarpaNam
nIvIti RRiSitIrthena hastayo madhyena dviH dviH RRiSIn tarpayet
1 kRRiSNadvaipAyanAdayaH ye ye RRiSAyaH tAn RRiSIn tarpayAmi
2 sarvvAn RRiSIn tarpayAmi
3 sarvvaRRiSigaNAn tarpayAmi
4 sarvvarSipatnIn tarpayAmi
5 savvarSigaNapatnIn tarpayAmi
6 prajApatim kANDaRRiSim tarpayAmi
7 somam kANDaRRiSim tarpayAmi
8 agnim kANDaRRiSim tarpayAmi
9 vishvAn devAn kANDarSIn tarpayAmi
10 sAmhitIrdevatA upaniSadaH tarpayAmi
11 yAj~nikIrdevatA upaniSadaH tarpayAmi
12 vAruNIrdevatA upaniSadaH tarpayAmi
13 havyavAham tarpayAmi
14 vishvAn devAn kANDarSIn tarpayAmi
15 brahmANam svayambhuvam tarpayAmi
16 vishvAn devAn kANDarSIn tarpayAmi
17 aruNAn kANDarSIn tarpayAmi
18 sadasaspatim tarpayAmi
19 RRigvedam tarpayAmi
20 yajurvedam tarpayAmi
21 sAmavedam tarpayAmi
22 atharvvaNavedam tarpayAmi
23 itihAsapurANam tarpayAmi
24 kalpam tarpayAmi
3 pitRRitarpaNam
prAcInAvItiH pitRRitIrthena a~NguSThasya tarjjanyAshca maddhyabhAgena pitRRIn triH triH tarpayet
1 somaH pitRRimAn yamo a~NgirasvAn agniH kavyavAhanaH ityAdayaH ye pitaraH tAn pitRRIn tarpayAmi
2 sarvvAn pitRRInstarpayAmi
3 sarvvapitRRigaNAn tarpayAmi
4 sarvvapitRRipatnIstarpayAmi
5 sarvvapitRRigaNpatnIstarpayAmi
Urjjam vahantIH amRRitam ghRRitam payaH kIlAlam parisrutam svadhAstha tarpayata me pitRRIn tRRipyata tRRipyata tRRipyata
upavIti Acamanam
upAkarma mahAsa~Nkalpam
shukLAmbaradharam viSNum shashivarNam chaturbhujam prasannavadanam dhyAyet sarvavighnopashAntaye.
AUM bhUH....
mamopAtta samasta duritakSayadvArA shrI parameshvara prItyartham tadeva lagnam sudinam tadeva tArAbalam candrabalam tadeva vidyAbalam daivabalam tadeva lakSmIpateH a~Nghriyugam smarAmi. apavitraH pavitro vA sarvAvasthAm gato.api vA yaH smaret puNDarIkAkSam sa bAhya AbhyantaraH shuciH. mAnasam vAcikam pApam karmaNA samupArjitam shrIrAmasmaraNenaiva vyapohati na samshayaH . shrI rAma rAma rAma tithir viSNuH tathA vAraH nakSatram viSNureva ca. yogashca karaNam caiva sarvam viSNumayam jagat. shrI govinda govinda govinda .
AdyashrI bhagavataH AdiviSNoH AdinArAyaNasya acintyayA aparimitayA shaktyA bhriyamANasya mahAjalaukhasya madhye paribhramatAm anekakoTi brahmANDAnAm madhye ekatame avyakta mahadaha~NkAra pRRithivyapteja vAyvAkAshAdyaiH AvaraNaiH AvRRite asmin mahati brahmANDakaraNDakamadhye AdhArashakti AdikUrmmAdyanantAdi aSTadiggajopari pratiSTitasya atala vitala sutala rasAtala talAtala mahAtala pAtALAkhya lokasaptakasya uparitale puNyakRRitAm nivAsabhUte bhuvassuvaH maharjjana tapassatyAkhya lokaSaTkasya adhobhAge mahAnALAyamAnaphaNirAjasheSasya sahasra phaNAmaNi maNDala maNDite digdanti shuNDAdaNDa uttambhite pa~ncAshatkoTiyojana vistIrNNe lokAloka acalena valayite lavaNekSu surAsarpi dadhi kSIra shuddhodakArNNavaiH parivRRite jambUplakSashAkashAlmalI kushakrau~ncha puSkarAkhya saptadvIpAnAm madhye jambUdvIpe mahAsaroruhe rUpa kesarAkAra tikUTa citrakUTAdi acala parivRRita karNNIkAkAra sumerum abhitaH tadaadhArabhUte bhUmaNDale lakSayojanavistIrNe mahAmeru niSadha hemakUTa himAcalAnaam iLAvRRita harikimpuruSa varSANAm ca dakSiNe nava sahasrayojanavistIrNe indra kasheru tAmra gabhastimat nAkasaumya gandharva cAraNa bhAratAkhya navavarSAtmake bhAratavarSe svarNaprastha candrayukta ajAvartti ramaNaka ma~Ngala mahAraNa pA~ncajana simhaLa la~Nkaakhya navakhaNDAtmake bharatakhaNDe svAmishaila avanti kurukSetra daNDakAraNya malayAcala samabhUmadhyarekhAyAH pUrvvadigbhAge shrIshailasya AgneyadigbhAge shrIrAmasetuga~NgAyoH madhyapradeshe parashurAmakSetre parArdhadvayajivinaH brahmaNaH
prathame parArdhe pa~ncAshat abdAtmike atIte dvitIya parArdhe pa~ncAshat abdAdau prathame varSe prathame mAse prathame pakSe prathame divase ahani dvitIye yAme tRRitIye muhUrte svAyambhuva svArociSa uttama tAmasa raivata cAkSusaakhyeSu SaTsu manuSu vyatIteSu saptame vaivasvatamanvantare aSTAvimshatitame kRRita tretA dvApara kaliyugAtmake caturyuge tatra kaliyuge prathamepAde saura chAndra sAvana nAkSatramAnaiH anumite shAlIvAhana shakAbde prabhavAdInAm SaSTisamvatsarANAm maddhye durmukhI nAma samvatsare dakSiNAyane varSa RRitau simhamAse shukLapakShe adya paurNamAsyAm shubhatithau guruvAsarayuktAyAm shraviSTA nakSatra yuktAyAm shubhayoga shubhakaraNa evam guNa visheSaNa vishiSTAyAm paurNamAsyAm shubhatithau mamopAtta samasta duritakSayadvArA shrI parameshvara prItyartham
anAdi avidyA vAsanayA pravarttamAne asmin mahati samsAracakre vicitrAbhiH karmmagatibhiH vicitrAsu pashu pakSi mRRigaadi yoniSu punaH punaH anekadA janitvA kenApi puNyakarmmavisheSeNa idAnImtana mAnuSye dvijanmavisheSam prAptavataH mama janmAbhyAsAt janmaprabhRRiti etad kSaNa paryantam bAlye vayasi kaumAre yauvane vArddhakye ca jAgrat svapna suSupti avasthAsu mano vAkkAya karmmendriya vyApAraiH j~nAnendriya vyApAraiH kAma krodha lobha moha mada mAtsaryAdibhIH sambhAvitAnAm samsargganimittAnAm bhUyo bhUyo.abhyasthAnAm samapAtakAnAm atipAtakAnAm upapAtakAnAm sa~NkarIkaraNAnAm malinIkaraNAnAm apAtrIkaraNAnAm jAtibhramshakarANAm prakIrNNakAnaam j~nAnataH sakRRitkRRitAnAm aj~nAnataH asakRRitkRRitAnAm j~nAnataH aj~nAnatashcha abhyasthAnAm nirantara abhyasthAnAm cirakAla abhyasthAnAm evam navAnAm navavidhAnAm bahUnAm bahuvidhAnAm sarveSAm pApAnAm sadyaH apanodana dvArA samasta pApakSayArtham devabrAhmaNa sannidhau ashvattha nArAyaNa sannidhau trayastrimshatkoTi samasta devatA sannidhau shrI vishAlAkSIsametaa shrI vishveshvaraswaami sannidhau, niLAbhUmIlakSmI sameta shrI lakSmInArayaNaswAmi sannidhau, sItalakSmaNabharatashatrughna hanUmat sameta shrI rAmacandraswAmisannidhau shrI vallIdevasenA sameta shrI subrahmaNyasvami sannidhau shrI hariharaputrasvAmi sannidhau shrAvaNyAm paurNamAsyAm adhyayopAkarma kariSye .dviH . tada~Ngam shrAvaNIpaurNNamAsI puNyakAle mahAnadyAm shivaga~NgA snAnamaham kariSye..
atikrUra mahAkAya kalpAnta dahanopama bhairavAya namastubhyam anuj~nAm daatum arhasi.
govindanAma sa~NkIrtanam govinda govinda.
yaj~nopavIta dhAraNa mantraH
shukLAm-- shAntaye mamopaatta samasta------ prItyartham shrauta smaartta vihita sadAchAra nityakarma anuSTAna yogyataa siddhyartham brahmatejo abhivRRiddhyartham yaj~nopavIta dhAraNam kariSye ..
yaj~nopavIta dhAraNa mahAmantrasya parabrahma RRiSi triSTup cchhandaH paramAtmA devatA yaj~nopavItadhaaraNe viniyogaH
nUtana yaj~nopavIta dhAraNa mantraH
yaj~nopavItam paramam pavitram prajApateH yat sahajam purastaat AyuSyam agrimum pratimu~ncha shubhram yaj~nopavItam balam astu tejaH.
AUM bhUH bhuvaH suvaH
jIrNa yaj~nopavIta nirasana mantraH
upavItam bhinnatantum jIrNam kashmala dUSitam visRRijAmi nahi brahma varchaH dIrghAyurastu me..
Acamya..
kANDaRRiSi tarpaNam
tilAkSatAn gRRihItvA
Acamya
shukLAmbaradharam ----shAntaye
AUM bhUH---AUM
adya pUrvokta evaM guNa visheSaNa vishiSTAyAm asyAm paurNamAsyAm shubhatithau mamopAtta samasta duritakSayadvArA shrI parameshvara prIttyartham shrAvaNipaurNamAsI puNyakAle addhyAyopakarmA~Ngam prAjApatyAdi kANDaRRiShi tarpaNam kariSye
tilAkSatAn gRRihItvA nivItinaH triH triH
1 prajApatim kANDaRRiSim tarpayAmi
2 somam kANDaRRiSim tarpayAmi
3 agnim kANDaRRiSim tarpayAmi
4 vishvAn devAn kANDaRRiSIn tarpayAmi
5 sAmhitIr devatAH upaniSadaH tarpayAmi
6 yaj~nikIr devatAH upaniSadaH tarpayAmi
7 vAruNIr devatAH upaniSadaH tarpayAmi
8 brahmANam svayambhuvam tarpayAmi
9 sadasaspatim tarpayAmi
upavIti Acamanam
gAyatrI japa sa~NkalpaH
pavitram dhRRitvaa darbheSvasInaH darbhAn dhArayamaaNaH
shukLAmbaradharam viSNum shashivarNam caturbhujam prasannavadanam dhyAyet sarvavighnopashAntaye
AUM bhUH ( prANAn AyAma)
mamopAtta samasta duritakSayadvArA shrI ---- prItyartham shubhe shobhane muhUrte AdyabrahmaNaH dvitIya parArdhe shvetavarAhakalpe vaivasvata manvantare aSTaavimshati tame kaliyuge prathame paade jambUdvIpe bhAratavarSe bharata khaNDe meroH dakSiNe pArshve shakaabde asmin vartamAne vyAvahaarike prabhavaadi SaSTi samvatsarANAm madhye durmukhI nAma samvatsare dakSiNAyane varSa RRitau shrAvaNa mAse kRRiSNa pakSe adya prathamAyAm shubha tithau shukra vAsara yuktAyAm shatabhiSa~Ng nakSatra yuktAyAm shubhayoga shubhakaraNa evam guNa visheSaNa vishiSTAyAm asyAm prathamAyAm shubhatithau mithyaatIta prAyashcittArtham doSavat apatanIyapraayashchittArtham samvatsara prAyashchittArtham aSTottara sahasra sa~Nkhyayaa gAyatrI mahamantrajapam kariSye darbhaan uttarato nirasya
praNavasya RRiSiH.--- devatA.. bhUraadi-- devatA .. iti nyasya dashavAram prANAyAmam kuryaat ,,
AayAtvityanuvAkasya-------------- paramAtmA devatA..
..gAyatrI japam aSTottarasahasravAram ..
upasthAnam.. gAyatryupasthAnam kariSye
uttame---sukham
abhivAdanam
namaskAram
pavitram visRRijya Acamya.
yajurupākarmam
kāmokārṣīt japam
pavitram dhṛtvā darbheṣvāsīnaḥ darbhān dhārayamāṇaḥ
śukḻāmbaradharam viṣṇum śaśivarṇam caturbhujam prasannavadanam dhyāyet sarvavighnopaśāntaye
|| om bhūḥ ( prāṇāyāma)
mamopātta samasta duritakṣayadvārā śrī ---- prītyartham śubhe śobhane muhūrte ādyabrahmaṇaḥ dvitīya parārdhe śvetavarāhakalpe vaivasvata manvantare aṣṭāvimśati tame kaliyuge prathame pāde jambūdvīpe bhāratavarṣe bharata khaṇḍe meroḥ dakṣiṇe pārśve śakābde asmin vartamāne vyāvahārike prabhavādi ṣaṣṭi samvatsarāṇām madhye durmukhī nāma samvatsare dakṣiṇāyane varṣa ṛtau śrāvaṇa māse śukḻapakṣe adya paurṇamāsyām śubha tithau guru vāsara yuktāyām śraviṣṭhā nakkṣatra yuktāyām śubhayoga śubhakaraṇa evam guṇa viśeṣaṇa viśiṣṭāyām asyām paurṇamāsyām śubhatithau taiṣyām paurṇamāsyām adhyāya utsarjana akaraṇa prāyaścithārttam aṣṭottara sahasra saṅkhyayā kāmokārṣīt manyurakārīt mahamantrajapam kariṣye || darbhān uttarato nirasya||
praṇavasya--iti japitvā daśavāram prāṇān āyamya
aṣṭottarasaharavāram kāmokārṣīt manyurakārṣit namo namaḥ iti japet
japāvasāne kāmamanyurupasthānam kariṣye iti upasthānam kuryāt|| uttame śikhare devi bhūmyām parvata mūrdhani brāhmaṇebhyohyanujñānam gaccha devi yathā sukham
abhivādanam kṛtvā namaskuryāt
pavitram visṛjya ācamet||
||brahmayajñaḥ||
ācamya prāṅmukhāḥ udaṅmukho vā pavitrapāṇiḥ āsīnaḥ saṅkalpam kuryāt|)
śukḻām----śāntaye| mamopātta samasta-------prītyartham brahmayajñam kariṣye brahmayajñena yakṣye|
vidyudasi vidya me pāpānamṛtāt satyamupaimi ( iti mantreṇa hastau ā maṇibandham prakṣālya)
om bhūḥ tat savitur vareṇyam om bhuvaḥ bhargo devasya dhīmahi ogm suvaḥ dhiyo yo naḥ pracodayāt om bhūḥ tatsaviturvareṇyam bhargo devasya dhīmahi om bhuvaḥ dhiyo you naḥ pracodayāt ogm suvaḥ tat saviturvareṇyam bhargo devasya dhīmahi dhiyo yo naḥ pracodayāt|
om agnimīḻe purohitam yajñasya devam ṛtvijam hotāram ratnadhātamam ṛk vedaḥ
om iṣe tvā ūrje tvā vāyavastha upāyavastha devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe yajurvedaḥ
om agna āyāhi vītaye gṛṇāno havya dātaye ni hotā satsi barhiṣi sāmavedaḥ
om śanno devīrabhiṣṭaya āpo bhavantu pītaye śamyorabhisravantu naḥ atharvaṇa vedaḥ
iti japtvā tadanantaraṁ
satyam tapaḥ śraddhāyām juhomi iti mantreṇa ātmānam pariṣicya
paridhānīyam ṛcam triḥ japet
om namo brahmaṇe namo'stvagnaye namaḥ pṛthivyai nama oṣadhībhyaḥ namo vāce namo vācaspataye namo viṣṇave bṛhate karomi|
vṛṣṭirasi vṛśca pāpmānamṛtāt satyamupāgām
iti hastau pūrvvavat ā maṇibandhāt prakṣāḻayet
deva ṛṣi pitṛ tarpaṇam
śukḻāmbaradharam----śānataye| mamopātta ||| prītyartham deva ṛṣi pitṛ tarpaṇam kariṣya -- jīvat pitṛkāḥ deva ṛṣi tarpaṇam kariṣye iti saṅkalpam kuryuḥ|
1 deva tarpaṇam devatīrthena aṅgulyagreṇa sakṛt sakṛt devān tarpayet
1 brahmādayo yo devāḥ tān devān tarpayāmi
2 sarvān devān tarpayāmi
3 sarvvadevagaṇān tarpyāmi
4 sarvvadevapatnīḥ tarpayāmi
5 sarvvadevagaṇapatnīḥ tarpayāmi
2 ṛṣitarpaṇam
nīvīti ṛṣitīrthena hastayo madhyena dviḥ dviḥ ṛṣīn tarpayet
1 kṛṣṇadvaipāyanādayaḥ ye ye ṛṣāyaḥ tān ṛṣīn tarpayāmi
2 sarvvān ṛṣīn tarpayāmi
3 sarvvaṛṣigaṇān tarpayāmi
4 sarvvarṣipatnīn tarpayāmi
5 savvarṣigaṇapatnīn tarpayāmi
6 prajāpatim kāṇḍaṛṣim tarpayāmi
7 somam kāṇḍaṛṣim tarpayāmi
8 agnim kāṇḍaṛṣim tarpayāmi
9 viśvān devān kāṇḍarṣīn tarpayāmi
10 sāmhitīrdevatā upaniṣadaḥ tarpayāmi
11 yājñikīrdevatā upaniṣadaḥ tarpayāmi
12 vāruṇīrdevatā upaniṣadaḥ tarpayāmi
13 havyavāham tarpayāmi
14 viśvān devān kāṇḍarṣīn tarpayāmi
15 brahmāṇam svayambhuvam tarpayāmi
16 viśvān devān kāṇḍarṣīn tarpayāmi
17 aruṇān kāṇḍarṣīn tarpayāmi
18 sadasaspatim tarpayāmi
19 ṛgvedam tarpayāmi
20 yajurvedam tarpayāmi
21 sāmavedam tarpayāmi
22 atharvvaṇavedam tarpayāmi
23 itihāsapurāṇam tarpayāmi
24 kalpam tarpayāmi
3 pitṛtarpaṇam
prācīnāvītiḥ pitṛtīrthena aṅguṣṭhasya tarjjanyāśca maddhyabhāgena pitṝn triḥ triḥ tarpayet
1 somaḥ pitṛmān yamo aṅgirasvān agniḥ kavyavāhanaḥ ityādayaḥ ye pitaraḥ tān pitṝn tarpayāmi
2 sarvvān pitṝnstarpayāmi
3 sarvvapitṛgaṇān tarpayāmi
4 sarvvapitṛpatnīstarpayāmi
5 sarvvapitṛgaṇpatnīstarpayāmi
ūrjjam vahantīḥ amṛtam ghṛtam payaḥ kīlālam parisrutam svadhāstha tarpayata me pitṝn tṛpyata tṛpyata tṛpyata
upavīti ācamanam
upākarma mahāsaṅkalpam
śukḻāmbaradharam viṣṇum śaśivarṇam caturbhujam prasannavadanam dhyāyet sarvavighnopaśāntaye|
om bhūḥ||||
mamopātta samasta duritakṣayadvārā śrī parameśvara prītyartham tadeva lagnam sudinam tadeva tārābalam candrabalam tadeva vidyābalam daivabalam tadeva lakṣmīpateḥ aṅghriyugam smarāmi| apavitraḥ pavitro vā sarvāvasthām gato'pi vā yaḥ smaret puṇḍarīkākṣam sa bāhya ābhyantaraḥ śuciḥ| mānasam vācikam pāpam karmaṇā samupārjitam śrīrāmasmaraṇenaiva vyapohati na samśayaḥ | śrī rāma rāma rāma tithir viṣṇuḥ tathā vāraḥ nakṣatram viṣṇureva ca| yogaśca karaṇam caiva sarvam viṣṇumayam jagat| śrī govinda govinda govinda |
ādyaśrī bhagavataḥ ādiviṣṇoḥ ādinārāyaṇasya acintyayā aparimitayā śaktyā bhriyamāṇasya mahājalaukhasya madhye paribhramatām anekakoṭi brahmāṇḍānām madhye ekatame avyakta mahadahaṅkāra pṛthivyapteja vāyvākāśādyaiḥ āvaraṇaiḥ āvṛte asmin mahati brahmāṇḍakaraṇḍakamadhye ādhāraśakti ādikūrmmādyanantādi aṣṭadiggajopari pratiṣṭitasya atala vitala sutala rasātala talātala mahātala pātāḻākhya lokasaptakasya uparitale puṇyakṛtām nivāsabhūte bhuvassuvaḥ maharjjana tapassatyākhya lokaṣaṭkasya adhobhāge mahānāḻāyamānaphaṇirājaśeṣasya sahasra phaṇāmaṇi maṇḍala maṇḍite digdanti śuṇḍādaṇḍa uttambhite pañcāśatkoṭiyojana vistīrṇṇe lokāloka acalena valayite lavaṇekṣu surāsarpi dadhi kṣīra śuddhodakārṇṇavaiḥ parivṛte jambūplakṣaśākaśālmalī kuśakrauñca puṣkarākhya saptadvīpānām madhye jambūdvīpe mahāsaroruhe rūpa kesarākāra tikūṭa citrakūṭādi acala parivṛta karṇṇīkākāra sumerum abhitaḥ tadādhārabhūte bhūmaṇḍale lakṣayojanavistīrṇe mahāmeru niṣadha hemakūṭa himācalānām iḻāvṛta harikimpuruṣa varṣāṇām ca dakṣiṇe nava sahasrayojanavistīrṇe indra kaśeru tāmra gabhastimat nākasaumya gandharva cāraṇa bhāratākhya navavarṣātmake bhāratavarṣe svarṇaprastha candrayukta ajāvartti ramaṇaka maṅgala mahāraṇa pāñcajana simhaḻa laṅkākhya navakhaṇḍātmake bharatakhaṇḍe svāmiśaila avanti kurukṣetra daṇḍakāraṇya malayācala samabhūmadhyarekhāyāḥ pūrvvadigbhāge śrīśailasya āgneyadigbhāge śrīrāmasetugaṅgāyoḥ madhyapradeśe paraśurāmakṣetre parārdhadvayajivinaḥ brahmaṇaḥ
prathame parārdhe pañcāśat abdātmike atīte dvitīya parārdhe pañcāśat abdādau prathame varṣe prathame māse prathame pakṣe prathame divase ahani dvitīye yāme tṛtīye muhūrte svāyambhuva svārociṣa uttama tāmasa raivata cākṣusākhyeṣu ṣaṭsu manuṣu vyatīteṣu saptame vaivasvatamanvantare aṣṭāvimśatitame kṛta tretā dvāpara kaliyugātmake caturyuge tatra kaliyuge prathamepāde saura cāndra sāvana nākṣatramānaiḥ anumite śālīvāhana śakābde prabhavādīnām ṣaṣṭisamvatsarāṇām maddhye durmukhī nāma samvatsare dakṣiṇāyane varṣa ṛtau simhamāse śukḻapakṣe adya paurṇamāsyām śubhatithau guruvāsarayuktāyām śraviṣṭā nakṣatra yuktāyām śubhayoga śubhakaraṇa evam guṇa viśeṣaṇa viśiṣṭāyām paurṇamāsyām śubhatithau mamopātta samasta duritakṣayadvārā śrī parameśvara prītyartham
anādi avidyā vāsanayā pravarttamāne asmin mahati samsāracakre vicitrābhiḥ karmmagatibhiḥ vicitrāsu paśu pakṣi mṛgādi yoniṣu punaḥ punaḥ anekadā janitvā kenāpi puṇyakarmmaviśeṣeṇa idānīmtana mānuṣye dvijanmaviśeṣam prāptavataḥ mama janmābhyāsāt janmaprabhṛti etad kṣaṇa paryantam bālye vayasi kaumāre yauvane vārddhakye ca jāgrat svapna suṣupti avasthāsu mano vākkāya karmmendriya vyāpāraiḥ jñānendriya vyāpāraiḥ kāma krodha lobha moha mada mātsaryādibhīḥ sambhāvitānām samsargganimittānām bhūyo bhūyo'bhyasthānām samapātakānām atipātakānām upapātakānām saṅkarīkaraṇānām malinīkaraṇānām apātrīkaraṇānām jātibhramśakarāṇām prakīrṇṇakānām jñānataḥ sakṛtkṛtānām ajñānataḥ asakṛtkṛtānām jñānataḥ ajñānataśca abhyasthānām nirantara abhyasthānām cirakāla abhyasthānām evam navānām navavidhānām bahūnām bahuvidhānām sarveṣām pāpānām sadyaḥ apanodana dvārā samasta pāpakṣayārtham devabrāhmaṇa sannidhau aśvattha nārāyaṇa sannidhau trayastrimśatkoṭi samasta devatā sannidhau śrī viśālākṣīsametā śrī viśveśvarasvāmi sannidhau niḻābhūmīlakṣmī sameta śrī lakṣmīnārayaṇasvāmi sannidhau sītalakṣmaṇabharataśatrughna hanūmat sameta śrī rāmacandrasvāmisannidhau śrī vallīdevasenā sameta śrī subrahmaṇyasvami sannidhau śrī hariharaputrasvāmi sannidhau śrāvaṇyām paurṇamāsyām adhyayopākarma kariṣye |dviḥ | tadaṅgam śrāvaṇīpaurṇṇamāsī puṇyakāle mahānadyām śivagaṅgā snānamaham kariṣye||
atikrūra mahākāya kalpānta dahanopama bhairavāya namastubhyam anujñām dātum arhasi|
govindanāma saṅkīrtanam govinda govinda|
yajñopavīta dhāraṇa mantraḥ
śukḻām-- śāntaye mamopātta samasta------ prītyartham śrauta smārtta vihita sadācāra nityakarma anuṣṭāna yogyatā siddhyartham brahmatejo abhivṛddhyartham yajñopavīta dhāraṇam kariṣye ||
yajñopavīta dhāraṇa mahāmantrasya parabrahma ṛṣi triṣṭup cchandaḥ paramātmā devatā yajñopavītadhāraṇe viniyogaḥ
nūtana yajñopavīta dhāraṇa mantraḥ
yajñopavītam paramam pavitram prajāpateḥ yat sahajam purastāt āyuṣyam agrimum pratimuñca śubhram yajñopavītam balam astu tejaḥ|
om bhūḥ bhuvaḥ suvaḥ
jīrṇa yajñopavīta nirasana mantraḥ
upavītam bhinnatantum jīrṇam kaśmala dūṣitam visṛjāmi nahi brahma varcaḥ dīrghāyurastu me||
ācamya||
kāṇḍaṛṣi tarpaṇam
tilākṣatān gṛhītvā
ācamya
śukḻāmbaradharam ----śāntaye
om bhūḥ---om
adya pūrvokta evaṁ guṇa viśeṣaṇa viśiṣṭāyām asyām paurṇamāsyām śubhatithau mamopātta samasta duritakṣayadvārā śrī parameśvara prīttyartham śrāvaṇipaurṇamāsī puṇyakāle addhyāyopakarmāṅgam prājāpatyādi kāṇḍaṛṣi tarpaṇam kariṣye
tilākṣatān gṛhītvā nivītinaḥ triḥ triḥ
1 prajāpatim kāṇḍaṛṣim tarpayāmi
2 somam kāṇḍaṛṣim tarpayāmi
3 agnim kāṇḍaṛṣim tarpayāmi
4 viśvān devān kāṇḍaṛṣīn tarpayāmi
5 sāmhitīr devatāḥ upaniṣadaḥ tarpayāmi
6 yajñikīr devatāḥ upaniṣadaḥ tarpayāmi
7 vāruṇīr devatāḥ upaniṣadaḥ tarpayāmi
8 brahmāṇam svayambhuvam tarpayāmi
9 sadasaspatim tarpayāmi
upavīti ācamanam
gāyatrī japa saṅkalpaḥ
pavitram dhṛtvā darbheṣvasīnaḥ darbhān dhārayamāṇaḥ
śukḻāmbaradharam viṣṇum śaśivarṇam caturbhujam prasannavadanam dhyāyet sarvavighnopaśāntaye
om bhūḥ ( prāṇān āyāma)
mamopātta samasta duritakṣayadvārā śrī ---- prītyartham śubhe śobhane muhūrte ādyabrahmaṇaḥ dvitīya parārdhe śvetavarāhakalpe vaivasvata manvantare aṣṭāvimśati tame kaliyuge prathame pāde jambūdvīpe bhāratavarṣe bharata khaṇḍe meroḥ dakṣiṇe pārśve śakābde asmin vartamāne vyāvahārike prabhavādi ṣaṣṭi samvatsarāṇām madhye durmukhī nāma samvatsare dakṣiṇāyane varṣa ṛtau śrāvaṇa māse kṛṣṇa pakṣe adya prathamāyām śubha tithau śukra vāsara yuktāyām śatabhiṣaṅg nakṣatra yuktāyām śubhayoga śubhakaraṇa evam guṇa viśeṣaṇa viśiṣṭāyām asyām prathamāyām śubhatithau mithyātīta prāyaścittārtham doṣavat apatanīyaprāyaścittārtham samvatsara prāyaścittārtham aṣṭottara sahasra saṅkhyayā gāyatrī mahamantrajapam kariṣye darbhān uttarato nirasya
praṇavasya ṛṣiḥ|--- devatā|| bhūrādi-- devatā || iti nyasya daśavāram prāṇāyāmam kuryāt
āayātvityanuvākasya-------------- paramātmā devatā||
||gāyatrī japam aṣṭottarasahasravāram ||
upasthānam|| gāyatryupasthānam kariṣye
uttame---sukham
abhivādanam
namaskāram
pavitram visṛjya ācamya|