Monday, August 20, 2018

Yajur upakarma 2018 Sanskrit


Yajurveda Upakarmam 26-08-2018
Gayatri Japam 27-08-2018
compiled by K V Ananthanarayanan Sekharipuruam Palakkad
1 यजुरुपाकर्मम् कामोकार्षीत् जपम्
पवित्रम् धृत्वा दर्भेष्वासीनः दर्भान् धारयमाणः
शुक्ळाम्बरधरम् विष्णुम् शशिवर्णम् चतुर्भुजम् प्रसन्नवदनम् ध्यायेत् सर्वविघ्नोपशान्तये भूः (प्राणायामम्)
ममोपात्त समस्त दुरितक्षयद्वारा श्री ---- प्रीत्यर्थम् शुभे शोभने मुहूर्ते आद्यब्रह्मणः द्वितीय परार्धे श्वेतवराहकल्पे वैवस्वत मन्वन्तरे अष्टाविम्शति तमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरत खण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिके प्रभवादि षष्टि सम्वत्सराणाम् मध्ये विलंबि नाम सम्वत्सरे दक्षिणायने वर्ष ऋतौ श्रावण मासे शुक्ळपक्षे अद्य पौर्णमास्याम् शुभ तिथौ भानु वासर युक्तायाम् श्रविष्ठा नक्क्षत्र युक्तायाम् शुभयोग शुभकरण एवम् गुण विशेषण विशिष्टायाम् अस्याम् पौर्णमास्याम् शुभतिथौ तैष्याम् पौर्णमास्याम् अध्याय उत्सर्जन अकरण प्रायश्चित्थार्थम् अष्टोत्तर सहस्र सङ्ख्यया कामोकार्षीत् मन्युरकारीत् महमन्त्रजपम् करिष्ये
दर्भान् उत्तरतो निरस्य॥
प्रणवस्य--इति जपित्वा दशवारम् प्राणान् आयम्य अष्टोत्तरसहरवारम् कामोकार्षीत् मन्युरकार्षित् नमो नमः इति जपेत् - जपावसाने काममन्युरुपस्थानम् करिष्ये इति उपस्थानम् कुर्यात्॥
उत्तमे शिखरे देवि भूम्याम् पर्वत मूर्धनि ब्राह्मणेभ्योह्यनुज्ञानम् गच्छ देवि यथा सुखम् अभिवादनम् कृत्वा नमस्कुर्यात् पवित्रम् विसृज्य आचमेत्॥
2
॥ब्रह्मयज्ञः॥
आचम्य प्राङ्मुखाः उदङ्मुखो वा पवित्रपाणिः आसीनः सङ्कल्पम् कुर्यात्। शुक्ळाम्----शान्तये। ममोपात्त समस्त-------प्रीत्यर्थम् ब्रह्मयज्ञम् करिष्ये ब्रह्मयज्ञेन यक्ष्ये। विद्युदसि विद्य मे पापानमृतात् सत्यमुपैमि इति मन्त्रेण हस्तौ मणिबन्धम् प्रक्षाल्य भूः तत् सवितुर् वरेण्यम् भुवः भर्गो देवस्य धीमहि ओग्म् सुवः धियो यो नः प्रचोदयात् भूः तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि भुवः धियो यो नः प्रचोदयात् ओग्म् सुवः तत् सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्। अग्निमीळे पुरोहितम् यज्ञस्य देवम् ऋत्विजम् होतारम् रत्नधातमम् (ऋक् वेदः ) इषे त्वा ऊर्जे त्वा वायवस्थ उपायवस्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे यजुर्वेदः अग्न आयाहि वीतये गृणानो हव्य दातये नि होता सत्सि बर्हिषि (सामवेदः) शन्नो देवीरभिष्टय आपो भवन्तु पीतये शम्योरभिस्रवन्तु नः( अथर्वण वेदः ) इति जप्त्वा तदनन्तरं सत्यम् तपः श्रद्धायाम् जुहोमि इति मन्त्रेण आत्मानम् परिषिच्य परिधानीयम् ऋचम् त्रिः जपेत्
नमो ब्रह्मणे नमोऽस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि। वृष्टिरसि वृश्च पाप्मानमृतात् सत्यमुपागाम् इति हस्तौ पूर्व्ववत् मणिबन्धात् प्रक्षाळयेत् ( देव ऋषि पितृ तर्पणम्)
शुक्ळाम्बरधरम्----शानतये। ममोपात्त॥। प्रीत्यर्थम् देव ऋषि पितृ तर्पणम् करिष्ये -- जीवत् पितृकाः देव ऋषि तर्पणम् करिष्ये इति सङ्कल्पम् कुर्युः। देव तर्पणम् देवतीर्थेन अङ्गुल्यग्रेण सकृत् सकृत् देवान् तर्पयेत् ब्रह्मादयो यो देवाः तान् देवान् तर्पयामि सर्वान् देवान् तर्पयामि सर्व्वदेवगणान् तर्प्यामि सर्व्वदेवपत्नीः तर्पयामि सर्व्वदेवगणपत्नीः तर्पयामि ऋषितर्पणम् नीवीति ऋषितीर्थेन हस्तयो मध्येन द्विः द्विः ऋषीन् तर्पयेत् कृष्णद्वैपायनादयः ये ये ऋषायः तान् ऋषीन् तर्पयामि सर्व्वान् ऋषीन् तर्पयामि सर्व्वऋषिगणान् तर्पयामि सर्व्वर्षिपत्नीन् तर्पयामि सव्वर्षिगणपत्नीन् तर्पयामि प्रजापतिम् काण्डऋषिम् तर्पयामि सोमम् काण्डऋषिम् तर्पयामि अग्निम् काण्डऋषिम् तर्पयामि विश्वान् देवान् काण्डर्षीन् तर्पयामि १० साम्हितीर्देवता उपनिषदः तर्पयामि ११ याज्ञिकीर्देवता उपनिषदः तर्पयामि १२ वारुणीर्देवता उपनिषदः तर्पयामि १३ हव्यवाहम् तर्पयामि १४ विश्वान् देवान् काण्डर्षीन् तर्पयामि १५ ब्रह्माणम् स्वयम्भुवम् तर्पयामि १६ विश्वान् देवान् काण्डर्षीन् तर्पयामि १७ अरुणान् काण्डर्षीन् तर्पयामि १८ सदसस्पतिम् तर्पयामि १९ ऋग्वेदम् तर्पयामि २० यजुर्वेदम् तर्पयामि २१ सामवेदम् तर्पयामि २२ अथर्व्वणवेदम् तर्पयामि २३ इतिहासपुराणम् तर्पयामि २४ कल्पम् तर्पयामि
पितृतर्पणम् प्राचीनावीतिः पितृतीर्थेन अङ्गुष्ठस्य तर्ज्जन्याश्च मद्ध्यभागेन पितॄन् त्रिः त्रिः तर्पयेत् सोमः पितृमान् यमो अङ्गिरस्वान् अग्निः कव्यवाहनः इत्यादयः ये पितरः तान् पितॄन् तर्पयामि सर्व्वान् पितॄन्स्तर्पयामि सर्व्वपितृगणान् तर्पयामि सर्व्वपितृपत्नीस्तर्पयामि सर्व्वपितृगण्पत्नीस्तर्पयामि ऊर्ज्जम् वहन्तीः अमृतम् घृतम् पयः कीलालम् परिस्रुतम् स्वधास्थ तर्पयत मे पितॄन् तृप्यत तृप्यत तृप्यत उपवीति आचमनम्
3
उपाकर्म महासङ्कल्पम्
शुक्ळाम्बरधरम् विष्णुम् शशिवर्णम् चतुर्भुजम् प्रसन्नवदनम् ध्यायेत् सर्वविघ्नोपशान्तये। भूः॥॥ ममोपात्त समस्त दुरितक्षयद्वारा श्री परमेश्वर प्रीत्यर्थम् तदेव लग्नम् सुदिनम् तदेव ताराबलम् चन्द्रबलम् तदेव विद्याबलम् दैवबलम् तदेव लक्ष्मीपतेः अङ्घ्रियुगम् स्मरामि। अपवित्रः पवित्रो वा सर्वावस्थाम् गतोऽपि वा यः स्मरेत् पुण्डरीकाक्षम् बाह्य आभ्यन्तरः शुचिः। मानसम् वाचिकम् पापम् कर्मणा समुपार्जितम् श्रीरामस्मरणेनैव व्यपोहति सम्शयः। श्री राम राम राम तिथिर् विष्णुः तथा वारः नक्षत्रम् विष्णुरेव च। योगश्च करणम् चैव सर्वम् विष्णुमयम् जगत्। श्री गोविन्द गोविन्द गोविन्द। आद्यश्री भगवतः आदिविष्णोः आदिनारायणस्य अचिन्त्यया अपरिमितया शक्त्या भ्रियमाणस्य महाजलौखस्य मध्ये परिभ्रमताम् अनेककोटि ब्रह्माण्डानाम् मध्ये एकतमे अव्यक्त महदहङ्कार पृथिव्यप्तेज वाय्वाकाशाद्यैः आवरणैः आवृते अस्मिन् महति ब्रह्माण्डकरण्डकमध्ये आधारशक्ति आदिकूर्म्माद्यनन्तादि अष्टदिग्गजोपरि प्रतिष्टितस्य अतल वितल सुतल रसातल तलातल महातल पाताळाख्य लोकसप्तकस्य उपरितले पुण्यकृताम् निवासभूते भुवस्सुवः महर्ज्जन तपस्सत्याख्य लोकषट्कस्य अधोभागे महानाळायमानफणिराजशेषस्य सहस्र फणामणि मण्डल मण्डिते दिग्दन्ति शुण्डादण्ड उत्तम्भिते पञ्चाशत्कोटियोजन विस्तीर्ण्णे लोकालोक अचलेन वलयिते लवणेक्षु सुरासर्पि दधि क्षीर शुद्धोदकार्ण्णवैः परिवृते जम्बूप्लक्षशाकशाल्मली कुशक्रौञ्च पुष्कराख्य सप्तद्वीपानाम् मध्ये जम्बूद्वीपे महासरोरुहे रूपकेसराकार तिकूट चित्रकूटादि अचल परिवृत कर्णिकाकार सुमेरुम् अभितः तदाधारभूते भूमण्डले लक्षयोजनविस्तीर्णे महामेरु निषध हेमकूट हिमाचलानाम् इळावृत हरिकिम्पुरुष वर्षाणाम् दक्षिणे नवसहस्रयोजनविस्तीर्णे इन्द्र कशेरु ताम्र गभस्तिमत् नाकसौम्य गन्धर्व चारण भारताख्य नववर्षात्मके भारतवर्षे स्वर्णप्रस्थ चन्द्रयुक्त अजावर्त्ति रमणक मङ्गल महारण पाञ्चजन सिम्हळ लङ्काख्य नवखण्डात्मके भरतखण्डे स्वामिशैल अवन्ति कुरुक्षेत्र दण्डकारण्य मलयाचल समभूमध्यरेखायाः पूर्व्वदिग्भागे श्रीशैलस्य आग्नेयदिग्भागे श्रीरामसेतुगङ्गायोः मध्यप्रदेशे परशुरामक्षेत्रे परार्धद्वयजिविनः ब्रह्मणः प्रथमे परार्धे पञ्चाशत् अब्दात्मिके अतीते द्वितीय परार्धे पञ्चाशत् अब्दादौ प्रथमे वर्षे प्रथमे मासे प्रथमे पक्षे प्रथमे दिवसे अहनि द्वितीये यामे तृतीये मुहूर्ते स्वायम्भुव स्वारोचिष उत्तम तामस रैवत चाक्षुसाख्येषु षट्सु मनुषु व्यतीतेषु सप्तमे वैवस्वतमन्वन्तरे अष्टाविम्शतितमे कृत त्रेता द्वापर कलियुगात्मके चतुर्युगे तत्र कलियुगे प्रथमेपादे सौर चान्द्र सावन नाक्षत्रमानैः अनुमिते शालीवाहन शकाब्दे प्रभवादीनाम् षष्टिसम्वत्सराणाम् मद्ध्ये विलंबी नाम सम्वत्सरे दक्षिणायने वर्ष ऋतौ सिम्हमासे शुक्ळपक्षे अद्य पौर्णमास्याम् शुभतिथौ भानुवासरयुक्तायाम् श्रविष्टा नक्षत्र युक्तायाम् शुभयोग शुभकरण एवम् गुण विशेषण विशिष्टायाम् पौर्णमास्याम् शुभतिथौ ममोपात्त समस्त दुरितक्षयद्वारा श्री परमेश्वर प्रीत्यर्थम्
अनादि अविद्या वासनया प्रवर्त्तमाने अस्मिन् महति सम्सारचक्रे विचित्राभिः कर्म्मगतिभिः विचित्रासु पशु पक्षि मृगादि योनिषु पुनः पुनः अनेकदा जनित्वा केनापि पुण्यकर्म्मविशेषेण इदानीम्तन मानुष्ये द्विजन्मविशेषम् प्राप्तवतः मम जन्माभ्यासात् जन्मप्रभृति एतद् क्षण पर्यन्तम् बाल्ये वयसि कौमारे यौवने वार्द्धक्ये जाग्रत् स्वप्न सुषुप्ति अवस्थासु मनो वाक्काय कर्म्मेन्द्रिय व्यापारैः ज्ञानेन्द्रिय व्यापारैः काम क्रोध लोभ मोह मद मात्सर्यादिभीः सम्भावितानाम् सम्सर्ग्गनिमित्तानाम् भूयो भूयोऽभ्यस्थानाम् समपातकानाम् अतिपातकानाम् उपपातकानाम् सङ्करीकरणानाम् मलिनीकरणानाम् अपात्रीकरणानाम् जातिभ्रम्शकराणाम् प्रकीर्ण्णकानाम् ज्ञानतः सकृत्कृतानाम् अज्ञानतः असकृत्कृतानाम् ज्ञानतः अज्ञानतश्च अभ्यस्थानाम् निरन्तर अभ्यस्थानाम् चिरकाल अभ्यस्थानाम् एवम् नवानाम् नवविधानाम् बहूनाम् बहुविधानाम् सर्वेषाम् पापानाम् सद्यः अपनोदन द्वारा समस्त पापक्षयार्थम् देवब्राह्मण सन्निधौ अश्वत्थ नारायण सन्निधौ त्रयस्त्रिम्शत्कोटि समस्त देवता सन्निधौ श्री विशालाक्षीसमेता श्री विश्वेश्वरस्वामि सन्निधौ निळाभूमीलक्ष्मी समेत श्री लक्ष्मीनारयणस्वामि सन्निधौ सीतलक्ष्मणभरतशत्रुघ्न हनूमत् समेत श्री रामचन्द्रस्वामिसन्निधौ श्री वल्लीदेवसेना समेत श्री सुब्रह्मण्यस्वमि सन्निधौ श्री हरिहरपुत्रस्वामि सन्निधौ श्रावण्याम् पौर्णमास्याम् अध्ययोपाकर्म करिष्ये।(द्विः।)
तदङ्गम् श्रावणीपौर्ण्णमासी पुण्यकाले महानद्याम् शिवगङ्गा स्नानमहम् करिष्ये॥
अतिक्रूर महाकाय कल्पान्त दहनोपम भैरवाय नमस्तुभ्यम् अनुज्ञाम् दातुम् अर्हसि।
गोविन्दनाम सङ्कीर्तनम् गोविन्द गोविन्द।
4.
यज्ञोपवीत धारण मन्त्रः
शुक्ळाम्-- शान्तये ममोपात्त समस्त------ प्रीत्यर्थम् श्रौत स्मार्त्त विहित सदाचार नित्यकर्म अनुष्टान योग्यता सिद्ध्यर्थम् ब्रह्मतेजो अभिवृद्ध्यर्थम् यज्ञोपवीत धारणम् करिष्ये॥
यज्ञोपवीत धारण महामन्त्रस्य परब्रह्म ऋषि त्रिष्टुप् च्छन्दः परमात्मा देवता यज्ञोपवीतधारणे विनियोगः (नूतन यज्ञोपवीत धारण मन्त्रः)
यज्ञोपवीतम् परमम् पवित्रम् प्रजापतेः यत् सहजम् पुरस्तात् आयुष्यम् अग्रिमुम् प्रतिमुञ्च शुभ्रम् यज्ञोपवीतम् बलम् अस्तु तेजः।
भूः भुवः सुवः
(
जीर्ण यज्ञोपवीत निरसन मन्त्रः )
उपवीतम् भिन्नतन्तुम् जीर्णम् कश्मल दूषितम् विसृजामि नहि ब्रह्म वर्चः दीर्घायुरस्तु मे॥
आचम्य॥
5
काण्डऋषि तर्पणम्
तिलाक्षतान् गृहीत्वा आचम्य शुक्ळाम्बरधरम् ----शान्तये भूः--- अद्य पूर्वोक्त एवं गुण विशेषण विशिष्टायाम् अस्याम् पौर्णमास्याम् शुभतिथौ ममोपात्त समस्त दुरितक्षयद्वारा श्री परमेश्वर प्रीत्त्यर्थम् श्रावणिपौर्णमासी पुण्यकाले अद्ध्यायोपकर्माङ्गम् प्राजापत्यादि काण्डऋषि तर्पणम् करिष्ये तिलाक्षतान् गृहीत्वा निवीतिनः त्रिः त्रिः प्रजापतिम् काण्डऋषिम् तर्पयामि सोमम् काण्डऋषिम् तर्पयामि अग्निम् काण्डऋषिम् तर्पयामि विश्वान् देवान् काण्डऋषीन् तर्पयामि साम्हितीर् देवताः उपनिषदः तर्पयामि यज्ञिकीर् देवताः उपनिषदः तर्पयामि वारुणीर् देवताः उपनिषदः तर्पयामि ब्रह्माणम् स्वयम्भुवम् तर्पयामि सदसस्पतिम् तर्पयामि
उपवीति आचमनम्
Gayatri Japam 27-08-2018
5
गायत्री जप सङ्कल्पः
पवित्रम् धृत्वा दर्भेष्वसीनः दर्भान् धारयमाणः शुक्ळाम्बरधरम् विष्णुम् शशिवर्णम् चतुर्भुजम् प्रसन्नवदनम् ध्यायेत् सर्वविघ्नोपशान्तये भूः प्राणान् आयाम ममोपात्त समस्त दुरितक्षयद्वारा श्री ---- प्रीत्यर्थम् शुभे शोभने मुहूर्ते आद्यब्रह्मणः द्वितीय परार्धे श्वेतवराहकल्पे वैवस्वत मन्वन्तरे अष्टाविम्शति तमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरत खण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिके प्रभवादि षष्टि सम्वत्सराणाम् मध्ये विलंबी नाम सम्वत्सरे दक्षिणायने वर्ष ऋतौ श्रावण मासे कृष्ण पक्षे अद्य प्रथमायाम् शुभ तिथौ सोम वासर युक्तायाम् शतभिषङ्ग् नक्षत्र युक्तायाम् शुभयोग शुभकरण एवम् गुण विशेषण विशिष्टायाम् अस्याम् प्रथमायाम् शुभतिथौ
मिथ्यातीत प्रायश्चित्तार्थम् दोषवत् अपतनीयप्रायश्चित्तार्थम् सम्वत्सर प्रायश्चित्तार्थम्
अष्टोत्तर सहस्र सङ्ख्यया गायत्री महमन्त्रजपम् करिष्ये
दर्भान् उत्तरतो निरस्य
प्रणवस्य ऋषिः।--- देवता॥ भूरादि-- देवता॥ इति न्यस्य दशवारम् प्राणायामम् कुर्यात्
आयात्वित्यनुवाकस्य-------------- परमात्मा देवता॥ ॥गायत्री जपम् अष्टोत्तरसहस्रवारम्॥ उपस्थानम्॥ गायत्र्युपस्थानम् करिष्ये उत्तमे---सुखम् अभिवादनम् नमस्कारम् पवित्रम् विसृज्य आचम्य।

No comments:

Post a Comment